________________
१२६
१२४
[षड्दर्शनस० एतद्वयक्ति विशेषव्यक्तिं चाहतत्र परं सत्ताख्यं, द्रव्यत्वाद्यपरमथ विशेषस्तु । निश्चयतो नित्यद्रव्य-वृत्तिरन्त्यो विनिर्दिशेत्॥६५॥
व्याख्या--तत्र तयोर्मध्ये परं सत्ताभावो महासामान्यमितिवोच्यते, द्रव्यत्वाद्यवान्तरसामान्यापेक्षया महाविषयत्वात् , अपरसामान्यं च द्रव्यत्वादि, एतच्च 'सामान्यविशेष' इत्यपि व्यपदिश्यते, तथाहि-द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात् सामान्यं गुणकर्मभ्यो व्यावृत्तत्वाद्विशेषः, ततः कर्मधारये 'सामान्यविशेष ' इति । एवं द्रव्यत्वाधपेक्षया पृथिवीत्वादिकमपरं तदपेक्षया घटत्वादिकम् , एवं चतुर्विंशतौ गुणेषु वृत्तेर्गुणत्वं सामान्यं द्रव्यकर्मभ्यो व्यावृत्तेश्च विशेषः, एवं गुणत्वापेक्षया रूपत्वादिकं तदपेक्षया नीलत्वादिकम्, एवं पंचसु कर्मसु वर्तमानत्वात् कर्मत्वं सामान्यं द्रव्यगुणेभ्यो व्यात्तत्वाद्विशेषः, एवं कर्मलापेक्षया उत्क्षेपणत्वादिकं ज्ञेयम् । तत्र सत्ता द्रव्यगुणकर्मभ्योऽर्थान्तरं, कया युक्त्या ? इति चेदुच्यते -न द्रव्यं सत्ता, द्रव्यादन्येत्यर्थः, एकद्रव्यवत्वात् , एककस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः, द्रव्यत्ववत् , यथा द्रव्यत्वं नवसु द्रव्येषु
१२६ 'निर्दिष्टः ध.। बृ० वृ० पृ. १११ । : दिकं ज्ञेयं, तद पु.।