________________
विद्या टीका श्लो० ६५ ] प्रत्येकं वर्तमानं द्रव्यं न भवति, किन्तु सामान्यविशेषलक्षणं द्रव्यत्वमेव, एवं सत्तापि । वैशेषिकाणां हि-अद्रव्यं वा द्रव्यं, अनेकद्रव्यं वा द्रव्यं, तत्राद्रव्यं द्रव्यमाकाशं कालो दिगात्मा मनः परमाणवः, अनेकद्रव्यं तु द्वयणुकादिस्कन्धाः , एकद्रव्यं तु द्रव्यमेव न भवति, एकद्रव्यवती च सत्ता, इति द्रव्यलक्षणविलक्षणत्वान द्रव्यम् । एवं न गुणः सत्ता, गुणेषु भावात् , गुणत्ववत् , यदि हि सत्ता' गुणः स्यान तर्हि गुणेषु वर्त्तत, निर्गुणत्वाद्गुणानां, वर्त्तते च गुणेषु सत्ता, सन् गुण इति प्रतीतेः। तथा न सत्ता कर्म, कर्मसु भावात् , कर्मत्ववत् , यदि हि सत्ता कर्म स्यान्न तर्हि कर्मसु वर्तत, निष्कर्मत्वात्कर्मणां, वर्तते च कर्मसु भावः सत्कर्मेति प्रतीतेः, तस्मात् पदार्थान्तरं सत्ता। अथ विशेषपदार्थमाह आर्यान विशेषस्त्विति, निश्चयतो नित्यद्रव्यवृत्तिरन्त्यो विनिर्दिशेदिति-'विनिर्दिशेत् ' कथयेत् आचार्य इति ज्ञेयम् , कथमित्याह-'अन्त्यो विशेषो नित्यद्रव्यवृत्ति'रिति, तथाहि-नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः-अत्यन्तव्यावृत्तिहेतवः, ते द्रव्यादि वैलक्षण्यात् पदार्थान्तरम् , तथा च प्रशस्तकरः
१२७. "द्रव्यं द्विधा अद्रव्यमनेकदव्यं च, न विद्यते द्रव्यं सन्यतया जनकतया च यस्य तदद्रव्यं द्रव्यम् , यथाकाशकालादि, अनेकं द्रव्यं जन्यतया च बनकतया च यस्य तदनेकद्रव्यं द्रव्यम्', इति ‘ख 'टिप्पन्याम् । " स्या० मं० पृ. ४३)
+ °त्ताऽपि गुणः ।