________________
विद्या० टीका श्लो० ५९ ]
१२१ अथ वैशेषिकमतस्य देवतादिसाम्येन ये नैयायिकेभ्यो विशेष नाभ्युपगच्छन्ति तान् बोधयन्नाहदेवताविषये भेदो, नास्ति नैयायिकैः समम् । वैशिषिकाणां तत्त्वेषु, विद्यतेऽसौ निदर्यते॥ ५९॥
व्याख्या-शिवदैवतसाम्येऽपि तत्त्वादिविशेषविशिष्टत्वाद्वैशेषिकाः, तेषां वैशेषिकामां काणादानां नैयायिकैरक्षपादैः समं साढे देवताविषये शिवदेवताभ्युपगमे भेदो विशेषो नास्ति, तत्त्वेषु शासनरहस्येषु भेदो विद्यते, तु शब्दोऽध्याहार्यः, असौ विशेषो नैयायिकेभ्यः पृथग्भावो निदयते प्रकाश्यत इत्यर्थः॥५९।। कुर्वते । एकान्तवादिनश्चैते सांख्यादयः सप्त घटादिपदार्थानां स्वरूपप्रदर्शनकाले स्वस्वमतानुसारेण घटोऽस्ति घटो नास्तीत्येवं प्रतिपादयन्ति, जैनास्तु तत्तदुक्तमङ्गीकृत्य केवलं तत्र स्यात्पदप्रक्षेपं कुर्वन्ति, यथा सांख्यैर्घटोऽस्तीति सत्यमेव परंतु न+ निश्चितं तत्स्वरूपम् , अतः स्यादस्तीति वक्तव्यम् । " (पृ. ८३, पुना, भाण्डारकर इन्स्टो० गवर्नमेन्ट ओरीएन्टल हिन्दु सिरिझ)
___ + टीकाकृतः स्याद्वादविषयस्यैतदज्ञानं सूचयति, स्याद्वादो नाम नानिश्चितो वादः किन्तु तदपरधर्मसापेक्षया तद्धर्मस्य निश्चयेन कथनम्, एकान्तवादिनोऽनन्त: धर्मात्मकस्य वस्तुनोऽभीष्टकधर्मस्यैकान्तप्रतिपादनेन तच्छेषधर्मानपलपन्ति, स्याद्वादिनस्तु त्वनेकान्तप्रतिपादनेन तानपि स्थापयन्ति-बोधविषयोकुर्वन्ति ।