________________
११४
११४
[ षड्दर्शनस० माँदासीन्यादिपर्यायपरम्परानुभवः स्खलन पः, कस्यचिद्वाघकस्याभावात् । ननु- उत्पादादयः परस्परं मिद्यन्ते न वा ? यदि भिद्यन्ते कथमेकं वस्तु व्यात्मकम् ?', न भिद्यन्ते चेत् तथापि कथमेकं त्र्यात्मकम् ? तथा च" यात्पादादयो भिन्नाः, कथमेकं त्रयात्मकम् । अथोत्पादादयोऽभिन्नाः, कथमेकं त्रयात्मकम् ? ॥" (५३) ।
इति चेत्तदयुक्तं, कथञ्चिद्भिवलक्षणत्वेन तेषां कथंचिद्भेदाभ्युपगमात् । तथा ह्युत्पादविनाशध्रौव्याणि स्याद्भिन्नानि, भिन्नलक्षणत्वानुपादिवत्, न च भिन्नलक्षणत्वमसिद्धम् , असत आत्मलामा, सतःसत्तावियोगो, द्रव्यरूपतयानुवर्त्तनं च, खलूत्पादादीनां परस्परमसङ्कीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव ।न चामी भिन्नलक्षणा अपि परस्परानपेक्षाः, खपुष्पवदसत्त्वापत्तेः, तथा ह्युत्पादः केवलो नास्ति, स्थितिविगमरहितत्वात् कूर्मरोमवत् , तथा विनाशः केवलो नास्ति स्थित्युत्पत्तिरहितत्वात् तद्वत् , एवं स्थितिः केवला नास्ति विनाशोत्पादशून्यत्वात् तद्वदेव, इत्यन्योन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यं । तथा चोक्तम्-- १५घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वलम् ।
शोकप्रमोदमाध्यस्थ्यं, जनो याति सहेतुकम् ॥ (५४) ११४ स्या० मं० पृ. १६९।
११५-११६ श्रीसमन्तभद्रकृता आप्तमोमांसा श्लो. ५९-६० इति स्या० मं० पृ० १७० ।