________________
विद्या० टीका ग्लो० ५७ ] ११पयोवतो न दध्यत्ति न पयोऽत्ति दधिव्रतः।
अगोरसवतो नोभे, तस्माद्वस्तु प्रयात्मकम् ॥ (५५) इति ।।
व्यतिरेकश्च यदुत्पादव्ययध्रौव्यात्मकं न भवति तद्वस्त्वेव न, यथा खरविषाणं, यथेदं तथेदमिति । अत एवानन्तधर्मकं वस्तु मानगोचरः प्रोक्तम् , अनन्ता धर्मा:-पर्यायाः सामान्यविशेषलक्षणा यत्रेत्यनन्तधर्मकं वस्त्विति उत्पादव्ययध्रौव्यात्मकस्यैवानेकधर्मकत्वं
११७. अथ बौद्धादिसर्वदर्शनाभीणा द्रष्टान्ता युक्तयश्चानेकान्तसिद्धये समाख्यायन्ते-बौद्धादिसर्वदर्शनानि संशयज्ञानमेकमुल्लेखद्वयात्मकं प्रतिजानन्ति नानेकान्तं प्रतिक्षिपन्ति । तथा स्वपक्षसाधकं परपक्षोच्छेदकं च विरुद्धधर्माध्यस्तमनुमानं मन्यमानाः परेऽनेकान्तं कथं पराकुयुः । मयूराण्डरसे नीलादयः सर्वेऽपि वर्णा नैकरूपा नाप्यनेकरूपाः, किंत्वेकानेकरूपा यथावस्थितास्तथैकानेकाद्यनेकान्तोऽपि, तदुक्तं नामस्थापनाद्यनेकान्तमाश्रित्य " मयूराण्डरसे यद्वद्वर्णा नीलादयःस्थिताः । सर्वेऽप्यन्योन्यसंमिश्रास्तद्वन्नामादयो घटे॥१॥ नान्धयः स हि मेदित्वान्न भेदोऽन्वयवृत्तितः। मृद्भेदद्वयसंसर्गवृत्तिजात्यन्तरं घटः ॥२॥ भागे सिंहो नरो भागे, योऽर्थो भागद्वयात्मकः । तमभार्ग विभागेन, नरसिंह प्रचक्षते ॥ ३ ॥ न नरः सिंहरूपत्वान सिंहो नररूपतः। शब्दविज्ञानकार्याणां मेदाज्जात्यन्तरं हि सः ॥ ४ ॥ त्रैरूप्यं पश्चरूप्यं वा, ब्रुवाणा हेतुलक्षणम् । सदसत्त्वादि सर्वेऽपि, कुतः परे न मन्वते ॥ ५ ॥" इल्यादिकमन्यद्वौद्धादिदर्शनविरोधाभासास्तेषामन्यप्रवादिनां खण्डनमनेकान्तवादमण्डनं च सर्व विज्ञेयं बृहद्वत्यादितः पृ. ९८ ।