________________
११२
[ षड्दर्शनस
૧૧૦
"
दर्शयन्नाह - ग्रहणेक्षयेति, इह 'ग्रहणं ' प्रकमाद्बहिःप्रवर्त्तनमुच्यते, अन्यथा विशेषणवैयर्थ्यात् तस्येक्षाऽपेक्षा तया - बहिः प्रवृत्तिपर्यालोचनयेति यावत्, तदयमर्थो - यद्यपि स्वयं प्रत्यक्षं तथापि लिङ्गशब्दादिद्वारेण बहिविषयग्रहणेऽसाक्षात्कारितया व्याप्रियत इति परोक्षमित्युच्यते इत्यर्थः ॥ ५६ ॥
पूर्वोक्तमेव वस्तुतत्त्वमनन्तधर्मात्मकतया दृढयन्नाह - येनोत्पादव्ययधौव्य - युक्तं यत् तत् सदिष्यते । अनन्तधर्मकं वस्तु, तेनोक्तं मानगोचरः ॥५७॥
૧૧
व्याख्या- येन कारणेन यत् उत्पादव्ययश्रव्ययुक्तं तत् सत् सत्त्वरूपमिष्यते तेन कारणेनानन्तधर्मकं वस्तु मानगोचरः प्रत्यक्ष परोक्षप्रमाणविषयं उक्तं - कथितमिति सम्बन्धः । उत्पादन व्ययश्च धौव्यं च ' उत्पादव्ययत्रौव्याणि तेषां युक्तं मेलः तदेव सच्चमिति प्रतिज्ञा, इष्यते केवलज्ञानिभिरभिलष्यत इति । वस्तु
66
११० इह ग्रहणं प्रस्तावादपरोक्षे बाह्यार्थे ज्ञानस्य प्रवर्तनमुच्यते न तु स्वस्य ग्रहणं, स्वग्रहणापेक्षया हि स्पष्टत्वेन सर्वेषामेव ज्ञानानां प्रत्यक्षतया व्यवच्छेद्याभावाद्विशेषणवैयर्थ्यं स्यत्, ततो ग्रहणस्य बहिः प्रवर्तनस्य या ईक्षा - अपेक्षा तया, बहिः प्रवृत्तिपर्यालोचनययेति यावत्, तदयमत्रार्थः - परोक्षं यद्यपि स्वसंवेदनापेक्षया प्रत्यक्षं तथापि लिङ्गशब्दादिद्वारेण बहिर्विषयग्रहणेऽसाक्षात्कारितया व्याप्रियत इति परोक्षमित्युच्यते । " (बृ. ब्रु. पृ. ९.) १११ तत्त्वार्थाधिगमसूत्र पृ. १९ इति प्र० मो० पृ. ४० ।