________________
१०८
विद्या टीका श्लो० ५६ ] ज्ञानोपप्रदर्शनात्यपरपरिकल्पितलक्षणयुक्तस्य प्रत्यक्षता प्रतिक्षिपति, एवं च यदाहुः-- "इन्द्रियार्थसन्निकर्षात्पन्नं ज्ञानमव्यपदेश्या
__ मन्यभिचारिव्यवसायात्मकं प्रत्यक्षम्," तथा“सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमि" त्यादि तदयुक्तमित्युक्तं भवति । अपूर्वमादुर्भावस्य प्रमाणबाधितत्वादत्यन्तासतां शशविषाणादोनामप्युत्पत्तिप्रसङ्गात्, तस्मादिदमात्मरूपतया विद्यमानमेव विशेषकृद्धेतुकलापसविधानात् साक्षादर्थग्रहणपरिणामरूपतया विवर्तेत, तथा चोत्पन्न-जन्मादिविशेषणं न सम्मवेत् , 'अथैवंविधार्थसूचकमेवैतदित्याचक्षीया'स्तथासत्यविगानमेवेत्यास्वा तावत् । अधुना परोक्षलक्षणं दर्शयति-इतरदित्यादि, अपरोक्षतयार्थस्य ग्राहकं ज्ञानं प्रत्यक्षमुक्तं तस्मादितरदसालादर्थग्राहकं ज्ञानं परोक्षमिति ज्ञेयमवगन्तव्यम् । एतदपि स्वसंवेदनापेक्षतया प्रत्यक्षमेव बहिरांपेक्षतया तु परोक्षव्यपदेशमश्नुत इति - १. “गौतमसूत्र 1-1-४" इति प्रमाणमीमांसा पृ. ३ । .
१.१ "सत्सम्प्रयोगे पुरुषम्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्त विद्य'मानोपलम्भनत्वात् " (मीमांसादर्शन १-१-४) इति प्र० मी० पृ. ३॥
+ " स्वसंवेदनं प्रत्यक्षेऽनुमानेपि समम्" धटिप्पणी।