________________
११०
[ षड्वर्शनस रापातघातदलितशक्तित्वेनासिद्धविरुद्धानकान्तिकत्वादिकण्ट कानामनवकाश एवेत्येवंविधपर्यायानन्त्यसुभगं वस्तु जिनशासने प्रमाणविषय इत्यर्थः ॥ ५५ ॥
लक्ष्यनिर्देशं कृत्वा लक्ष(क्ष्य)लक्षणमाहअपरोक्षतयार्थस्य, ग्राहकं ज्ञानमीदृशम् ।
प्रत्यक्षमितरज्ज्ञेयं, परोक्षं ग्रहणेक्षया ।। ५६ ॥ व्याख्या-तत्र प्रत्यक्षमिति लक्ष्यनिर्देशः, अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशमिति लक्षणनिर्देशः, परोक्षोऽक्षगोचरातीतस्ततोऽन्योऽपरोक्ष'स्तद्भावस्तत्ता तया साक्षात्कृततयेति यावत् , अर्यत इत्यर्थों, गम्यत इति हृदयम् , अर्थ्यत इति वाऽर्थः', दाहपाकाद्यर्थक्रियाथिभिरभिलष्यत इति, तस्य 'ग्राहकं' व्यवसायात्मकतया परिच्छेदकं यद् ज्ञानं तदीदृशमि'ति ईडगेव प्रत्यक्षमिति सण्टङ्कः । ' अपरोक्षतये' त्यनेन परोक्षलक्षणसङ्कीर्णतामध्यक्षस्य परिहरति, तस्यासाक्षात्कारितयार्थग्रहणरूपत्वादिति । 'ईदृशमि'. त्यमुना तु पूर्वोक्तन्यायात् सावधारणेन विशेषणकदम्बकसचिव
त्वा लक्षण ध। • . १०. “अपरोक्षतयेत्यनेन परोक्षलक्षणसङ्कीर्णतामध्यक्षस्य परिहरति, एतेन परपरिकल्पितानां कल्पनापोढत्यादीनां प्रत्यक्षलक्षणानां निरासः कृतो द्रष्टव्यः ।" (बृ. वृ. पृ. ९०१)