________________
१०८
[ षड्दर्शनस०
x
*
-
★ इन्द्रियाण्याश्रित्य व्यवहारसाधकं यत् ज्ञानमुत्पद्यते तत् प्रत्यक्षमि - त्यर्थः । अवधिमनः पर्यायकेवलज्ञानानि तद्भेदाश्च प्रत्यक्षमेव, अत एव सांव्यवहारिकपारमार्थिकैन्द्रियकादयो भेदा अनुमाना (व) धिकज्ञानविशेषप्रकाशकत्वादत्रैवान्तर्भवन्ति । ' परोक्षं' चेति, अक्षाणां परं परोक्षम्, अक्षे च परतो बर्त्तते इति वा, परेणेन्द्रियादिना वाऽक्ष्यते परोक्षं स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदम्, अमुयैव माया मतिश्रुतज्ञाने अपि परोक्षमेवेति द्वे प्रमाणे ! प्रमाणमुक्त्वा तगोचरमाह तु पुनः इह जिनमते प्रमाणविषयः प्रमाणयोः प्रत्यक्षपरोक्षयो विषयो' गोचरो ज्ञेय इत्यध्याहारः । किं तदित्याशङ्कायाम् अनन्तधर्मकं वस्त्विति वस्तुतत्त्वं पदार्थस्वरूपं किं विशिष्टं ' अनन्तधर्मकं ' अनन्तास्त्रिकाळविषयखादपरिमिता ये धर्माः सहभाविनः क्रमभाविनश्व पर्याया यत्रेति । अनेन साधनमपि दर्शितम्, तथाहि - तत्त्वमिति धर्मि, अनन्तधर्मात्मकं साध्यो धर्मः, सत्त्वान्यथानुपपत्तेरिति हेतुः, अन्यथानुपपत्त्येकलक्षणत्वाद्धेतोरन्तर्व्यास्थाया विसंवादा ऽविसंवादलक्षणत्वादिति स्थितमेतत् " प्रत्यक्षं परोक्षं च द्वे एव प्रमाणे, " अत्र च मतिश्रुतावधिमनः पर्याय केवलज्ञानानां मध्ये मतिश्रुते परमार्थतः परोक्षं प्रमाणं अवधिमनः पर्यायकेवलानि तु प्रत्यक्षं प्रमागमिति । " (पृ. ८५ )
X
,
x" अक्षाणि चेन्द्रियाणि तानि प्रतिगतम् इन्द्रियाण्याश्रित्य " (प्र० मो० प्र. १३) * क्षमिति द्वे जं. : 'शे ज्ञातव्य इ' ध. । पयित्वा । * मकत्वं ध ।