________________
विद्या० टोका श्लो० ५५ ]
१०७
3
अश्नुते विषयमित्यक्षमिन्द्रियम् अक्षमक्षं प्रति गतं मत्यक्षं, हेतुफलभावाभावप्रसक्तिर्भवेदीति प्रत्येयम् । धारणास्वरूपा च मतिरविसंवादस्वरूपम्मतिफलस्य हेतुत्वात्प्रमाणं, स्मृतिरपि तथाभूतप्रत्यवमर्शस्वभावसंज्ञाफलजनकत्वात्, संज्ञापि तथाभूततर्कस्वभावचिन्ताफलजनकत्वात् चिन्ताप्यनुमानलक्षणाऽऽभिनिबोधफलजनकत्वात् सोऽपि ज्ञानादिबुद्धिजनकत्वात्, तदुक्तम् - " मतिः स्मृतिः संज्ञा चिन्ताऽऽभिनिबोध इत्यनर्थान्तरम् ।" अनर्थान्तरमिति कथञ्चिदेकविषयं प्राक् शब्दयोजनान्मतिज्ञानमेतत् । शेषमनेकप्रभेदं शब्दयोजनादुपजायमानमविशदं ज्ञानं श्रुतमिति केचित् । सैद्वान्तिका - स्त्वग्रहेहावायवारणा प्रभेदरूपाया मतेर्वाचकाः पर्यायशब्दा मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्येते शब्दा इति प्रतिपन्नाः । स्मृतिसंज्ञाचिन्तादीनां च कथचिद गृहोतग्राहित्वेऽप्यविसंवादकत्वादनु मानवत्प्रमाणताभ्युपेया, अन्यथा व्याप्तिग्राहकप्रमाणेन गृहीतविषयत्वेनानुमानस्याप्रमाणताप्रसक्तेः । अत्र च यत्शब्दसंयोजनात्प्राक् स्मृत्यादिकमविसंवादिव्यवहार निर्वर्तनक्षमं वर्तते तन्मतिः, शब्दसंयोजनात्प्रादुर्भूतं तु सर्व श्रतमिति विभागः । स्मृतिसंज्ञादोनां चस्मरणतर्कानुमानरूपाणां परोक्षभेदानामपि यदिह प्रत्यक्षाधिकारे भणनंतन्मतिश्रुत विभागज्ञानाय प्रसङ्गेनेति विज्ञेयम् । " (पृ. ८४ )
|
1
'
9
" अथ परोक्षम् - अविशदमविसंवादि ज्ञानं परोक्षम्, स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत्पञ्चधा । .... एकस्यैव ज्ञानस्य यत्राविसंवादस्तत्र प्रमाणता, इतरत्र च तदाभासता, यथा तिमिराद्युपप्लुतं ज्ञानं चन्द्रादावविसंवादकत्वात्प्रमाणं तत्संख्यादौ च तदेव विसंवादत्वादप्रमाणम, प्रमाणतरख्व्यव