________________
[ षड्दर्शनस० अहणोति वा व्याप्नोति सकलद्रव्यक्षेत्रकालभावानित्यक्षो जीकः, धीनतया यदुत्पद्यते तत्प्रत्यक्षमिति तत्पुरुषः, इदं व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्तं तु स्पष्टत्वम् , तेनानिन्द्रियप्रत्यक्षमपि प्रत्यक्षशब्दवाच्यं सिद्धम , अक्षो-जीवः वात्र व्याख्येयः, जीवमाश्रित्यैवेन्द्रियनिरपेक्षमनिन्द्रियादिप्रत्यक्षस्योत्पतेः ।....तद्विप्रकार-सांव्यवहारिकं पारमार्थिकं च, तत्र सांव्यवहारिकं बाह्येन्द्रियादिसामग्रीसापेक्षत्वादपारमार्थिकमस्मदादिप्रत्यक्षम् , पारमार्थिकं त्वात्मसंनिधिमात्रापेक्षमवध्यादिप्रत्यक्षम् । सांव्यवहारिक द्वेधा -चक्षुरादीन्द्रियनिमित्तं मनोनिमित्तं च, तद्विविधमपि चतुर्धा-अक्ग्रहहावायधारणाभेदात् , तत्र. विषयविषयिसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाघमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः, अस्यार्थ:-विषयो द्रव्यपर्यायात्मकोऽर्थः, विषयी चक्षुरादिः, तयोः समीचीनो भ्रान्त्याचजनकखेनानुकुलो निपातो योग्यदेशाद्यवस्थानं तस्मादनन्तरं, समुदभूतमुत्पन्नं यत्सत्तामात्रगोचरं दर्शनं-निराकारो बोधस्तस्माजातमा सत्तासामान्यायवान्तरैमनुष्यत्वादिभिर्विशेषविशिष्टस्य वस्तुनो यद्ग्रहणं ज्ञानं तदवग्रहः, पुनरवगृहीत. विषयसंशयानन्तरं तद्विशेषाकाङ्क्षणमीहा. तदनन्तरं तदीहितविशेषनिर्णयोऽवायः, अवेतविषयस्मृतिहेतुस्तदनन्तरं धारणा । अत्र च पूर्वपूर्वस्य प्रमाणतोत्तरोत्तरस्य च फलतेत्येकस्यापि मतिज्ञानस्य चातुर्विध्यं कथंचित्प्रमाणफलभेदश्चोपपन्नः । तथा यद्यपि क्रमभाविनामवग्रहादीनां हेतुफलतया व्यवस्थितानां पर्यायार्थाद्रेदस्तथाप्येकजीवतादात्म्येन द्रव्यार्थादेशादमीषामैक्यं कथञ्चिदविरुद्धमन्यथा