________________
विद्या टीका श्लो० ५५ ]
१०५ व्याख्या-तथेति प्रस्तुतमतमध्यानुसन्धाने हे प्रमाणे मते अभिमते के ते? इत्याह-प्रत्यक्षं च परोक्षं चेति । अश्नुते प्रमाणमिति । प्रकर्षेण संशयाधभावम्वभावेन मीयते परिच्छियते वस्तु येन तत्यमाणम्, स्वमात्मा ज्ञानस्य स्वरूपं, परः स्वस्मादन्योऽर्थ इति यावत् तौ विशेषेण यथावस्थितस्वरूपेणावस्यति निश्चिनोतीत्येवंशीलं यत्तत्स्वपरव्यवसायि, ज्ञायते प्राधान्येन विशेषो गृह्यतेऽनेनेति ज्ञानम् , अत्र ज्ञानमिति विशेषणमज्ञानरूपस्य व्यवहारमार्गानवतारिणः सन्मात्रगोचरस्य स्वसमयप्रसिद्धस्य दर्शनस्य सनिकर्षादेश्वाचेतनस्य नैयायिकादिकल्पितस्य प्रामाण्यपराकरणाथ, ज्ञानस्यापि च प्रत्यक्षरूपस्य शाक्यनिर्विकल्पतया प्रामाण्येन कल्पितस्यापि संशयविपर्ययानध्यवसायानांच प्रमाणत्वयाच्छेदार्थ व्यवसायोति, पारमार्थिकपदार्थसार्थापलापिज्ञानाद्वैतादिवादिमतमपाकर्तुं परेति, नित्यपरोक्षबुद्धिवादिनां मीमांसकानामेकात्मसमवायिज्ञानान्तरप्रत्यक्षज्ञानवादिनां वैशेषिकयौगानामचेतनज्ञानवादिनां कापिलानां च कदाग्रहनिग्रहाय स्वेति, समग्रं तु लक्षणवाक्यं परपरिकल्पितस्यार्थोपलब्धिहेत्वादेः प्रमाणत्वलक्षणवप्रतिक्षेपार्थम् , अत्र च स्वस्य ग्रहणयोग्यः परोऽर्थः स्वपर इत्यस्यापि समासस्याश्रयणाव्यवहारिजनापेक्षया यस्य यथा यत्र ज्ञानस्याविसंवादस्तस्य तथा प्रामाण्यमित्यभिहितं भवति, तेनसंशयादेरपिधर्भिमात्रापेक्षया न प्रामाण्ययाहतिः।" (पृ. ८२।१-२)
अत्रापि बृहत्तित उल्लिख्यते किञ्चित्-"अक्षम्-इन्द्रियप्रतिगतमिन्द्रिया