________________
विद्या० टीका श्लोक ५४ ]
१०३ शानदर्शनविनाकृतस्य हि चारित्रस्य सम्यक्चारित्रव्यवच्छेदार्थ 'सम्यक्त्वज्ञान 'ग्रहणमिति ॥ ५३॥ .
फळमाहतथा भव्यत्वपाकेन, त[य]स्यैतत् त्रितयं भवेत् । सम्यग्ज्ञानक्रियायोगा-ज्जायते मोक्षभाजनम्॥५४॥
व्याख्या-तथेत्युपदर्शने भव्यत्वपाकेन, परिपक्वभव्यत्वेन तद्भव एवावश्यं मोक्षे गन्तव्यमिति, भव्यत्वस्य परिपाकेन यस्य पुंसः खियो वा एतत् त्रितयं ज्ञानदर्शनचारित्ररूपं भवेत्, यत्तदोनित्यसम्बन्धात सोऽनुक्तोऽपि सम्बध्यत इति, स पुमान् मोक्षभाजनं जायते-निर्वाणश्रियं भुंक्त इत्यर्थः । कस्मात् ? सम्यरज्ञानक्रियायोगात् , 'सम्यगि'ति सम्यक्त्वं दर्शनम्, 'ज्ञान'माग_ 'अस्य व्यव ध । अनिराकरणार्थम् घटिप्पणी ।
+ 'थेति प्रकारान्तरकथने घ.। र्शनार्थे म. जं ।
१०४"जीवा द्वेधा भव्याभव्यमेदात्, अभव्यानां सम्यक्त्वाद्यभावः, भव्यानामपि भन्यत्वपाकमन्तरेण तदभाव एव, तथाभव्यत्वपाके तु तत्सद्भावः, ततोऽत्रायमर्थःभविष्यति विवक्षितपर्यायेणेति भव्यः, तद्भावो भव्यत्वं, भव्यत्वं नाम सिद्धिगमनयोग्यत्वं जीवानामनादिपारिणामिको भावः " इति बृ० वृ० तो विज्ञेयम् । (पृ. ८१)