________________
૨૦૨
[षड्दर्शनस०
कावस्थायामपि सन्त्येव । यदुक्तम्
यस्मात् क्षायिकसम्यक्त्व-वीर्यसिद्धत्वदर्शनशानैः। आत्यन्तिकैः स युक्तो, निर्द्वन्द्वेनापि च सुखेन ॥ (४८) शानादयस्तु भावप्राणाः. मुक्तोऽपि जीवति स तैर्हि ।
तस्मात्तज्जीवत्वं, नित्यं सर्वस्य जीवस्य ॥ ४९) इति सङ्गतं देहवियोगान्मोक्षः, आदिशब्दादेहेन्द्रियधर्मविरहोsपीति पद्यार्थः ॥ ५२॥ - नामोद्देशेन तत्त्वानि सङ्कीर्त्य फलपूर्वकमुपसंहारमाह* एतानि तत्र तत्वानि, यः श्रद्धत्ते स्थिराशयः । सम्यक्त्वज्ञानयोगेन, तस्य चारित्रयोग्यता ॥५३।।
व्याख्या-पूर्वोक्तानि तत्र जैनमते तत्त्वानि यः कश्चित् स्थिराशयो दृढचित्तः सन् श्रद्धत्ते अवैपरीत्येन मनुते, एतावता जाननप्यश्रधानो मिथ्यागेव, यथोक्तं श्रीगन्धहरितमहातकें" द्वादशाङ्गमपि श्रुतं विदर्शनस्य मिथ्ये "ति, तस्य दृढमानसस्य सम्यक्त्वज्ञानयोगेन चारित्रयोग्यता-चारित्रार्हता, 'सम्यक्त्वज्ञानयोगेने ति सम्यक्त्वं च ज्ञानं च सम्यक्त्वज्ञाने, तयोयाँगस्तेन,
x यस्मादुक्तम् ध।
* हितोऽपीति जं.। + श्रीवादिगजगन्ध ध, । श्रीगन्धहस्तिना महातकें इति बु. वृ० पृ. ८१ ।