________________
१००
[ षड्दर्शन यतिधर्मों द्वादश भावनाः पञ्च चारित्राणीति प्रकृतयः । बन्धमाहजीवस्य प्राणिनः कर्मणो वेद्यस्यान्योन्यागमात् परस्परं क्षीरनीरन्यायेन लोलीमावाद् यो व्योरपि जीवकर्मणोः सम्बन्धः संयोगः स बन्धो नाम तत्त्वमित्यर्थः । स च चतुर्विधः प्रकृतिस्थित्यनुभागप्रदेशभेदात्
१०३
स्वभावः प्रकृतिः प्रोक्तः, स्थितिः कालावधारणम् ।
अनुभागो रसो ज्ञेयः, प्रदेशो दलसञ्चयः ॥ (४६) इत्यादि । मल-सत्कार-प्रज्ञा-अज्ञान-सम्यक्त्व-विषयेऽधिसहनं परीषहा द्वाविंशतिः, क्षमा-मृदुता-आर्जव-त्याग-तप-संयम-सत्य-शौच-अकिंचनत्व-ब्रह्मचर्याणां पालनं दश यतिधर्माः, अनित्यत्व-अशरणत्व-संसार-एकत्व-अन्यत्व-अशुचित्य -आश्रव-संवर-निर्जरा-लोकस्वभाव-बोधिदुर्लभ-धर्मभावनानां मुहुर्मुहुर्भावनं द्वादश भावनाः, सामायक-च्छेदोपस्थापनीय-परिहारविशुद्धक-सूक्ष्म-संपराय यथाख्यातैश्चरणाचारित्रं पञ्चविधम् ।।
१०१. कर्माण्यष्टविधानि मूलभेदतो ज्ञातव्यानि ज्ञानावरणीय-दर्शनावरणीय - वेदनीय-मोहनीय-आयु:-नाम-गोत्र-अन्तरायनामकानि, उत्तरप्रकृतिमेदतः पुनरष्टपवाशदधिकशतभेदानि । १०३. " प्रकृतिः समुदायः स्यात् , स्थितिः कालावधारणम् । अनुभागो रसः प्रोक्तः, प्रदेशो दलसञ्चयः॥"
इति तु प्रयमे कर्मग्रन्थे (पृ. ४ आत्मा सभा)।