________________
विद्या० टोका श्लोक ४५-४६ ] __ केवलं दुर्नयबलप्रभावितप्रबलमतिव्यामोहादेकमपलप्यान्यवर
यवस्थापयन्ति कुमतयः, सोऽयमन्धगजन्यायः, येऽपि च तदेकान्तपक्षोपनिपातिनः प्रागुक्ता दोषास्तेऽप्यनेकान्तवादप्रचण्डमुद्रमहारजर्जरितत्वाद् नोच्छवसितुमपि क्षमाः। स्वतन्त्रसामान्यविशेषवादिनस्त्वेवं प्रतिक्षेप्याः-सामान्य प्रतिव्यक्ति कथञ्चिद्विभिन्नं, कथञ्चिचदात्मकत्वात् , विसदृशपरिणामवन् , यथैव हि काचिद्वयक्तिरुपलभ्यमानाद्वयक्त्यन्तराद्विशिष्टा विसदृशपरिणामदर्शनादवतिष्ठते तथा सदृशपरिणामात्मकसामान्यदर्शनात् समानेति, तेन समानो गौरयम्, सोऽनेन समान इति प्रतीतेः, न चास्य व्यक्तिस्वरूपादमिन्नत्वात् सामान्यरूपताव्याघातो, यतो रूपादीनामपि व्यक्तिस्वरूपादभिन्नस्वमस्ति, न च तेषां गुणरूपताव्याघातः, कथञ्चिद्वयतिरेकस्तु रूपादीनामिव सदृशपरिणामस्याप्यस्त्येव, पृथग्व्यपदेशादिभाक्त्वात्। विशेषा अपि नैकान्तेन सामान्यात् पृथग् भवितुमईन्ति, यतो यदि सामान्यं सर्वगतं सिद्धं भवेत्तदा तेषामसर्वगतत्वेन ततो विरुद्धधर्माध्यासः स्यात्, न च तस्य तत्सिद्धं. मागुक्तयुक्त्या निराकृतत्वात् ,
८९ " जन्मान्धैर्दशभिर्यथाक्रम पदचतुष्टयश्रोत्रद्वयशुण्डादन्तपुच्छरूपा मजावयवाः स्पृष्टाः, ततस्त अन्धाः स्वस्पृष्टरूपं स्तम्भाद्याकारकं पूर्णतया गजस्वरूपं प्रतिपद्यमानास्तथैव स्थापयन्ति तदितरनिषेधयन्ति तद्वत् " इति स्था मटि पृ १११॥ + कञ्चिद्भिनंध.। कथञ्चिद्भिन्नं कथञ्चिदभिन्न" स्या मं.पृ. १११६