________________
[ षड्दर्शनम०
काणादा अ(आ)क्षपादाश्च ।
तदेतत् पक्षत्रयमपि नक्षमते क्षोदं प्रमाणबाधितत्वात् , सामान्य विशेषोभयात्मकस्यैव वस्तुनो निर्विगानमनुभूयमानत्वात्, वस्तुनो हि लक्षणमर्थक्रियाकारित्वं, तच्चानेकान्तवाद एवाविकलं कलयन्ति परीक्षकाः, तथा हि - गौरित्युक्ते खुरककुदलाङ्गलसानाविषाणाघवयवसम्पन्नं वस्तुरूपं सर्वव्यक्त्यनुयायि प्रतीयते, तदारहिष्यादिव्यावृत्तिरपि प्रतीयते, यत्रापि च शबला गौ'रित्युचते तत्रापि यथा विशेषप्रतिभासस्तथा गोत्वप्रतिभासोऽपि स्फुट एव, 'बले' ति केवलविशेषोचारणेऽप्यर्थात् प्रकरणाद्वा गोत्वमनुवर, अपि च शबलत्वमपि नानारूपं, तथा दर्शनात् , ततो वक्रा 'शाले 'त्युक्त क्रोटोकृतसकलशबलसामान्यं विवक्षितगोव्यक्तिगतमेव शबलवं व्यवस्थाप्यते, तदेवमाबालगोपालं प्रतीतिप्रसिद्धेऽपि वस्तुनः सामान्यविशेषात्मकत्वे तदुभयैकान्तवादः प्रलापमात्रम् । नहि क्वचिद कदाचित् केनचित् सामान्यं विशेष विना कृतमनुभूयते, विशेषा वा तद्विनाकृताः, यदाहु:
८८द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । ___ क्व कदा केन किंरूपा, दृष्टा मानेन केन वा ॥ (३४) इरि ॥ :
८७. स्या० मं• पृ. १०६ । यथा गौ स्या• मं• पृ. ११ । .
८८ स्या. मं. पृ. १८ । “ एतदर्थिका गाथा संमतितकें प्रथमकाण्डे हस्पते. दव्वं पजवविज्जुअं दवविउत्ता य पज्जवा नत्थि ॥ १२ ॥" इत्येतस्य टिप्पणम् ।