________________
शिया टीका श्लो० ४५-४६ ] अभिन्नं चेद्विशेषा एव, वत् स्वरूपवदिति विशेषकान्तवादः। नैगमनयानुगामिनस्त्वाहुः ‘स्वतन्त्री सामान्यविशेषौ', तथैव प्रमाणेन प्रतीतत्वात् , तथा हि - 'सामान्यविशेषावत्यन्तभिन्नौ, विरुद्धधर्माध्यासितत्वाद, यावेवं तावेवं, यथा पाथःपावको. तथा चैतौ, तस्मात् नया। सामान्यं हि गोत्वादि सर्वगतं, तद्विपरीताश्च शवलशाबलेयादयो विशेषाः, ततः कथमेषामैक्यं युक्तं ? 'न सामान्यात् पृथग् विशेषस्योपलम्भ ' इति चेत्, कथं तर्हि तस्योपलम्म ? इति वाच्यम् , 'सामान्यव्याप्तस्ये 'ति चेत्, न तर्हि स विशेषोपलम्भः, सामान्यस्यापि तेन ग्रहणात् , ततश्च तेन बोधेन विविक्तविशेषग्रहणाभावात्तबाचकं ध्वनि तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता, नचैतदस्ति विशेषाभिधानव्यवहारयोः प्रवृत्तिदर्शनात्, तस्माद्विशेषमभिलषता सब व्यवार प्रवर्तयता तद्ग्राहको बोधो विविक्तोऽभ्युपगन्तव्यः, एवं सामन्यस्थाने विशेषशब्दं विशेषस्थाने च सामान्यशब्दं प्रयुजानेन नामान्येऽपि तद्भाइको बोधो विविक्तोऽङ्गीकर्तव्यः, तस्मात् स्वस्वग्राहिणि ज्ञाने पृथक् प्रतिमासमानत्वाद् द्वावपीतरेतरविशकसितौ, तो न सामान्यविशेषात्मकत्वं वस्तुनो घटत इति स्वतन्त्रसामान्याविषवादः, स्वतन्त्रसामान्यविशेषदेशका नैगमनयानुरोधिनः
+ शेषाणामभावात् घ.। तद्बोधकं जं. । * "त्मक वस्तुध. ।