________________
[ षड्दर्शनस० सामान्यस्य विशेषाणांच परस्परं कथञ्चिदव्यतिरेकेणैकानेकरूपतया व्यवस्थितत्त्वात् विशेषेभ्योऽव्यतिरिक्तत्वाद्वि सामान्यमप्यनेकमिष्यते, सामान्यात्तु विशेषाणामव्य तिरेकात्तेऽप्येकरूपा इति। एकत्वं च सामान्यस्य सङ्ग्रहनयाप्पणात् सर्वत्र विज्ञेयम् , प्रमाणार्पणात् तस्य (कथञ्चिद्विरुद्धधर्मायसितत्वम् ), सदृशपरिणामरूपस्य विसदृशपरिणामवत् (कथञ्चित् ) प्रतिव्यक्तिभेदात् , एवं चासिद्धं सामान्यविशेषयोः सर्वथा विरुद्धधर्माध्यासितत्वं, कथञ्चिविरुदधर्माध्यासितत्वं चेद्विवक्षितं तदारमत्कक्षाप्रवेशः, कथञ्चिद्विरुद्धधर्माध्यासस्य कथञ्चिद्भेदाविनाभूतत्वात् , पाथःपावकदृष्टान्तोऽपि साध्यसाधनविकलः, तयोरपि कथञ्चिविरुद्धधर्माध्यासितत्वेन भिन्नत्वेन च स्वीकारात् , पयस्त्वपावकत्वादिना हि तयोविरुद्धधर्माध्यासो भेदश्च, ट्रव्यत्वादिना पुनस्तद्वैपरीत्यमिति । तथा च कथं न सामान्यविशेषालकत्वं वस्तुनो घटत ? इति । उक्तं च -
दोहि वि जाहँ नीयं, सत्थमुलुहिँ तह वि मिच्छत्तं। जं सविसयप्पहाण-त्तणेण अन्नुन्ननिरविक्खं ॥ (३५) तथा९० "कयश्चित्परस्पराव्यतिरेकेण कानेकरूपतया " स्या० भ० पृ. १११ + केणानेकैकरूप ध. । * स्या० मं० पृ ११२ ।
९१ " सम्मतितर्क तृतीयकाण्डगाथा ४९" इति प्रमाणमीमांसाटिप्पणी, पृ. ४० (पुना), मूलं तत्राशुद्धम् ।