________________
विद्या० टीका श्लो० ४५-४६ ]
८५
८३
न्मण्डूकजटाभारानुकाराः, अभिनाश्चेत् तदेव तत्स्वरूपवत्' इति सामाम्यैकान्तः सामान्यैकान्तवादिनस्तु द्रव्पास्तिकनयानुपातिनो मीमांसकमेदा अद्वैतवादिनः सांख्याश्च । पर्यायनयान्वयिनस्तु भाषन्ते - ' विविक्ता क्षणक्षणो विशेषा एव परमार्थः, ततो विष्वग्भूतस्य सामान्यस्याप्रतीयमानत्वात्, न हि गवादिव्यक्त्यनुभवकाले वर्णसंस्थानात्मकं व्यक्तिरूपमपहायान्यत् किञ्चिदेकमनुयायि प्रत्यक्षे प्रतिभासते, तादृशस्यानुमवाभावात्, तथा च पठन्ति - सर्वमेकम, अविशेषेण सदिति ज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वात्,.... किञ्च, ये सामान्यात्पृथग्भूता अन्योऽन्यव्यावृत्त्यात्मका विशेषाः कल्प्यन्ते तेषु विशेषत्वं विद्यते न वा ? नो चेद् निःस्वभावताप्रसङ्गः, स्वरूपस्यैवाभावात्, अस्ति चेत् तहिं तदेव सामान्यम्, यतः समानानां भावः सामान्यम्, विशेषरूपतया च सर्वेषां तेषामविशेषेण प्रतीतिः सिद्धैव, अपि च विशेषाणां व्यावृचिप्रत्ययहेतुत्वं लक्षणम्, व्यावृत्तिप्रत्यय एव च विचार्यमाणो न घटते, व्यावृत्तिर्हि विवक्षितपदार्थे इतरपदार्थप्रतिषेधः,... स चाभावरूपत्वात्तुच्छः कथं प्रतीतिगोचरमञ्चति ? खपुष्पवत्.... किञ्च, अमी विशेषाः सामान्याद्भिन्ना अभिन्ना वा ? " इत्यादिकं द्रष्टव्यम् पृ. १०७ - १०८ ।
८२. “ मण्डूके केशा न भवन्ति, तेन जटानामसंभवः इति" स्या०मं० श्री. पृ. १०८ ।
८३ . परमार्थतः' प्र० । स्या० मं० तु " परमार्थः " । पृ० १०८ ।
હર
-