________________
[ षड्दर्शनस० वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुद्भावयति! तस्मात् क्षणिकस्यापि भावस्याक्रमेणार्थक्रिया दुर्घटा इत्यनित्यकान्तादपि क्रमाक्रमयोनिवृत्त्यैव व्याप्यार्थक्रियापि व्यावर्त्तते, तद्वयावृत्तौ च सत्वमपि व्यापकानुपलब्धिबलेनैव निवर्तत इत्येकान्तानित्यवादो ऽपि न रमणीयः। ___ स्याद्वादे तु पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेन भावानामर्थक्रियोपपत्तिरविरुद्धा । न चैकत्र वस्तुनि परस्परविरुद्धधर्माध्यासयोगादसन् स्याद्वाद इति वाच्यम् , नित्यपक्षानित्यपक्षविलक्षणस्य कथञ्चित् सदसदात्मकस्य पक्षान्तरस्याङ्गीक्रियमाणत्वात् , तथैव च सर्वैरनुभवादिति । तथा च पठन्ति___ “भागे सिंहो नरो भागे, योऽर्थो भागद्वयात्मकः ।
तमभागं विभागेन, नरसिंहं प्रचक्षते ॥" (३२)इति तथा सामान्यैकान्तं विशेषकान्तं भिन्नौ सामान्यविशेषौ चेत्थं निराचष्टे । तथाहि-'विशेषाः सामान्याद्भिन्ना अभिन्ना वा ? भिन्नाश्चे
७९ " क्रमाक्रमयोप्पकयोनिवृत्यैव " स्याः मं० पृ २३ । x प स्वयमपि जं. पु. । ८०. स्या०म०पृ. २३।।
८१. अत्र स्याद्वादमञ्जरीतः किश्चिल्लिख्यते- " एतच्च पक्षत्रयमपि किश्चिच्चर्यते, तथाहि-संग्रहनयावलम्बिनो वादिनः प्रतिपादयन्ति 'सामान्य मेव तत्त्वम्, ततः पृथग्भूतानां विशेषाणामदर्शनात्, तथा
८१