________________
८२
[ षड्दर्शनस० तत्कृत उपकारोऽस्य समवायस्याभ्युपगन्तव्यस्तथा च सत्युपकारस्य भेदाभेदकल्पना तदवस्थैव, उपकारस्य समवायादभेदे समवाय एव कृतः स्यात्, भेदे पुनरपि समवायस्य न नियतसम्बन्धि सम्बन्धत्वम्, तन्नैकान्तनित्य भावः क्रमेणार्थक्रियां कुरुते । नाप्यक्रमेण, न ह्येको भावः सकलकालकलाभाविनीर्युगपत्सर्वाः क्रियाः करोतीति प्रातीतिकं, कुरुतां वा तथापि स द्वितीयक्षणे किं कुर्यात् ? करणे वा क्रमपक्षभावी दोषः, अकरणे त्वर्थक्रियाकारित्वाभावादवस्तुत्वप्रसङ्गः। इत्येकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्ताऽर्थक्रिया व्यापकानुपलब्धिवलाद्वयापक निवृत्तौ निवर्तमाना व्याप्यमर्थक्रियाकारित्वं निवर्त्तयति, अर्थक्रियाकारित्वं च निवर्त्तमानं स्वव्याप्यं सत्वं निवर्त्तयतीति नैकान्तनित्यपक्षो युक्तिसमः । एकान्ताऽनित्यपक्षोऽपि न कक्षीकरणाः। अनित्यो हि प्रतिक्षणविनाशी, स च न क्रमेणार्थक्रियासमय देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात् क्रमो हि पौर्वापर्य तच्च क्षणिकस्याऽसम्भवि, अवस्थितस्यैव नानादेशकालव्याप्तिर्देशक्रमः कालक्रमचाभिधीयते, न चैकान्त विनाशिनि सास्ति, यदाहुः "यो यत्रैव स तत्रैव यो यदैव तदेव सः ।
७६
न देशकालयोर्व्याप्तिर्भावानामिह विद्यते ॥ " (३१)
७५
1
७५. "स्वव्याप्य० " इति स्था० मं० पृ० २१ ।
* व हि नाना ध. एवमेव च स्था० मं० पृ २२ ।
७६. " आजीविकाः" इति स्था० मं० टिप्पण्याम् पृ. २२ ।