________________
--
x
विद्या० टोका श्लो० ४५-४६ ] समर्यश्चेत् तत्किं सहकारिमुखप्रेक्षणदीनानि तान्यपेक्षते न पुनटिति घटयति ? । ननु ' समर्थमपि बीजमिलाजलानिलादिसहकारिसहितमेवाङ्कुरं करोति, नान्यथा, तत् किं तस्य सहकारिमिः किश्चिदुपक्रियते न वा ? यदि नोपक्रियेत तदा सहकारिसनिधानात् भागिव कि न सोऽर्थः कियायामुदास्ते ?' उपक्रियेत' चेत् स तर्हि
रुपकारो भिन्नोऽभिनो वा क्रियत इति वाच्यम्, अभेदे स एव क्रियत इति लाभमिच्छतो मूलक्षतिरायाता, कृतकत्वेन तस्यानित्यवापत्तेः, भेदे सति कथं तस्योपकारः ? किं न सह्यविन्ध्यादेरपि ? 'तत्सम्बन्धात् तस्यायमिति चेत्, उपकार्योपकारयोःका सम्बन्धो? न तावत् संयोगो, द्रव्ययोरेव तस्य भावात् , अत्र तूपकार्य द्रव्यं उपकारश्च क्रियेति न संयोगः, नापि समवायस्तस्यैकत्वाद् व्यापकत्वाच्च प्रत्यासत्तिविप्रकर्षामावेन सर्वत्र तुल्यत्वाद् न नियतैः सम्बन्धिमिः सम्बन्धो युक्तः, नियतसम्बन्धे चाङ्गीक्रियमाणे
७२. तान्युपेक्षते ' इति स्या० मं० पृ. २० पाठः, परमशुद्धो भाति । x °स्य सहितस्य जं.। ७३. "किं न तदाप्यर्थक्रियायामदास्ते ?" इति स्या० मं० पृ. २० । r. "नियतसम्बन्धिसम्बन्धे " इति स्या० मं० पृ. ११।