________________
विद्या०टीका श्लो० ४५-४६ ]
"SE को दुक्खं पाविजा, कहल व सुखेद्दि विम्हओ हुजा । को य न लभिज मुक्ख, रागदोसा जइ न हुजा ॥ (२९) इति
तथा हतमोहमहामल्लः, मोहनीयकर्मोदयाद्धिंसात्मकशास्त्रेभ्योऽपि मुक्तिकांक्षणादिव्यामोहो मोहः, स एव दुर्जेयत्वान्महामल इव महामल्लः, इतो मोहमहामल्लो येनेति स तथा । रागद्वेषमोहसद्भावादेव न चान्यतीर्थाधिष्ठातारो मुक्त्यङ्गतया प्रतिभासन्ते, तत्सद्भावश्च तेषु सुज्ञेय एव । यदुक्तम्
“६८ रागोऽङ्गनासङ्गमनाऽनुमेयो, द्वेषो द्विषदारण हे तिगम्यः । मोहः कुवृत्तागम दोष साध्यो, नो यस्य देवस्य स चैवमर्हन् ॥ " (३०)
इति रागद्वेषमोहरहिता भगवान् । तथा केवलज्ञानदर्शनः, धन- खदिर- पलासादिव्यक्तिविशेषावबोधो ज्ञानम्, वनमिति सामान्यावबोधो दर्शनम्, केवळ शब्दचोभयत्र सम्बध्यते, 'केवलं' इन्द्रियादिज्ञानानपेक्षं ज्ञानं दर्शनं च यस्येति । केवलज्ञानकेवलदर्शनात्मको हि भगवान् करतलकलितविमलमुक्ताफलवद् द्रव्यपर्यायविशुद्धमखिलमिदमनवरतं जगत्स्वरूपं पश्यतीति केवलज्ञानदर्शन इति पदं साभिप्रायम् । छद्मस्थस्य हि प्रथमं दर्शनमुत्पद्यते, ततो ज्ञानम्, केवलिनस्त्वादौ ज्ञानं ततो दर्शनमिति । तथा सुरासुरेन्द्रसम्पूज्यः, सेवाविधानसावधाननिरन्तरढौकमानदासाअपि । पृ. ४५ ।
६९. ते ८