________________
७८
[ षड्दर्शनस●
तदेवाह -
जिनेन्द्रो देवता तत्र, रागद्वेषविवर्जितः । हतमोहमहामल्लः, केवलज्ञानदर्शनः ॥ ४५ ॥
सुरासुरेन्द्रसम्पूज्यः, सद्भूतार्थोपदेशकः । कृत्स्नकर्मक्षयं कृत्वा, सम्प्राप्तः परमं पदम् ॥ ४६॥ युग्मम् ॥
व्याख्या - तत्र तस्मिन् जैनमते जिनेन्द्रो देवता कृत्स्नकर्मक्षयं कृत्वा परमं पदं सम्माप्त इति सम्बन्धः । ' जिनेन्द्र ' इति - जयन्ति रागादीनिति जिना: सामान्य केवलिनस्तेषामिन्द्रः स्वामी, तादृशासदृश चतुस्त्रिंशदतिशय संपन्महितो जिनेन्द्रो देवता दर्शनप्रवर्त्तक आदिपुरुषः । एष कीदृक् सन् शिवं प्राप्त इति परासाधारणानि विशेषणान्याह - रागद्वेषविवर्जित इति, ' रागः ' सांसारिकस्नेहोऽनुग्रहलक्षणः, 'द्वेषो' वैरानुबंधानिग्रहलक्षणः, ताभ्यां विवर्जितो रहितः, एतावेव दुर्जेयौ दुरन्तभत्रसम्पातहेतुकतया च मुक्तिप्रतिरोधक ममये प्रसिद्धी । यदाह
* तार्थप्रकाशकः । ध. एवं च बृहद्वृत्तौ पृ. ४५।१। * सन्तापहे जं. ।