________________
विद्या का लो० ४३ ]
तेषां वैकारिकः, इष्टापूर्ते दाक्षिणः - पुरुषत स्वानमिको दोशपूर्वकारी कामोपहतमना बद्ध्यत इति ।
६३.८ "इष्टापूर्त्त मन्यमाना: वरिष्ठं नान्यच्छ्रेयोः येऽभिनन्दन्ति मूढाः । नाकस्य पृष्ठे ते सुकृतेन भूत्वा, इमं लोकं हीनतरं वा विशन्ति ॥" (२५) इति वचनात् ।
इति त्रिविधबन्धविच्छेदात् परमब्रह्मज्ञानानुभवस्ततः प्रकृतिवियोग: पुरुषस्य, प्रकृतिपुरुषविवेकदर्शनाच्च नित्तायां प्रकृती पुरुषस्य स्वरूपावस्थानं मोक्ष इति लोकपूर्वार्द्धार्थः । मानत्रितयं प्रमाणत्रयं च भवेत् स्यात् प्रत्यक्षं लेङ्गिकं शब्दं चकारः सर्वत्र सम्बध्यते, प्रत्यक्षमिन्द्रियोपलभ्यं लङ्गिकमनुपानगम्यं शाब्द चागमस्वरूपमिति ४ प्रमाणत्रयम् ॥ ४३ ॥
६४.
६३ वृत्तमिदं स्या० मं० पृ १२६ । टिप्पण्यां चास्य स्थलं 'मुं. उ. १-२-१० सूचितम् (परिशिष्ट २. पृ. ५५ ) । ' मुं उ.' इति मुण्डकोपनिषद् ज्ञेया ।
६४. अत्र बृहद्वृत्ति:- " प्रमाणस्य सामान्यलक्षणमुच्यते- 'अर्थोपल बिषहेतुः प्रमाण' मिति, तत्र प्रत्यक्षलक्षणमाख्यायते - 'श्रोत्रादिवृत्तिरविक ल्पिका प्रत्यक्षमिति,... श्रोत्रादीनीन्द्रियाणि तेषां वृत्तिर्वर्तनं परिणाम इवि. यावत् इन्द्रियाण्येव विषयाकारपरिणतानि प्रत्यक्षमिति हि तेषां सिद्धांतः, अविकल्पिका नामजात्यादिकल्पनारहिता शाक्य मताध्यक्ष वद्ञ्याख्येयेवि,
,
A