SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ कृतः ? । हस्तिरपि चीत्कारं कृत्वाऽवोचत्-मामभिमानवन्तमिति कथयितु कथमयमजः प्रभवति । कोऽयं यदेवं वक्त मुत्सहते ? अश्वोऽपि क्रोधावेशेन ह्रषाध्वनि कुर्वन्नवादीत्-कथमनेन लघुनाजेन चपलशब्दप्रयोगश्चाञ्चल्यार्थे कृतमुत किमप्यपरेण, व्याजबीजेनेति ? तस्मिन्न व क्षणे वृषभोऽपि रोषभितोऽवादीत-मां मन्दं कथमेतेन दुस्साहसः कृतः ? तस्मिन् क्षणे सहिष्णु-स्वभावान्न गर्दभः क्रोधावेशं कृतवान् समताभावेन तेनाऽसभ्य इति । तस्य कथनं श्रुतम्, किन्तु न खलु प्रतिवादः कृतः सहनशीलत्वात् । पशुसभाया: वातावरणमतीवविक्रान्तं कलुषितं कलहायितमिति मत्वा शशक उत्थाय अब्रवीत्-प्रियबान्धवाः ! क्रोधेनावेशेनातिरुषा नात्र विचारो निर्णयो वा सम्भवतीश्वरस्वरूपस्य । गुणकपक्षपातदृशा यदजोऽवादीत्-तत्तु सत्यमेव । निश्चप्रचत्वेन सिंह-व्याघ्रौ निर्दयतापूर्वकं निरपराधपशूनां वधं कुर्वन्ति, विदारयन्ति निर्ममतया तेषां शरीराणि, भक्षयन्ति चेति । हस्तिरपि शुण्डादण्डं भ्रामयन् अहंकारमत्त इव भ्रमति । किं नायमभिमानप्रकारः ? कशाघातेनाश्वस्य त्वरिता जगत्कर्तृत्व-मीमांसा-६
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy