________________
स्वनाम-कृताक्षेपमधिगत्य श्वान-शृगालो उत्थाय सहैव तारस्वरेणावोचताम्-यदस्यां सभायां व्यक्तिगतः आक्षेपो नैव कर्त्तव्यः । यच्चापलपितं गर्दभेण तत् विषये क्षमायाचना कर्तव्या। तत् वचनं स्वयमेव प्रतिग्राह्य तेनैवेति ।
गर्दभोऽवादीत् नैवाहं व्यक्तिगतमाक्षेपभावनया किमपि वच्मि किन्तु लोके प्रचलितेति कर्ता। प्रहन्तूदाहरणार्थमेव ब्रवीमि। नात्र आक्षेपगन्धोऽपि वास्तविकीयं स्थितिः । किं सम्मिलिते ऽस्थिशकलेन भवति तथैव भवतोरायासः । लध्वीं वार्ती श्रुत्वैवोग्रता, धैर्यपरित्यागो मैवोपयुज्यते । अत एवाहं ब्रवीमि, ईश्वरस्तु महान् सहिष्णुः मत्सदृशदृढपृष्ठदेशीय एव स्यात् । स तु अतीव सहनशीलः, विश्वस्मिन् पापकर्तृणाम् पापानि सहते ? अन्यथा तु तस्य जीवनमपि न सम्भवेत् । भगवान् तु अन्यायं दृष्ट्वापि जीवति । अतोऽहं ब्रवीमि स तु अतीवसहिष्णुरेव-स्यादिति ।
पूर्वोक्त निशम्य श्वानोऽवदत् 'यथा दृष्टि: तथा सृष्टिरिति' सर्वमान्यः सिद्धान्तः, सत्यमेवैतत् अन्यथा सर्वे खलु वैचित्र्य-भावेन कथं वर्णयितु शक्ताः भवेयुः । पृच्छाम्यहं तावत् भगवतः कथं केशावली स्यात् ? किमेतत् पराक्रम-चिह्नमिति ? केशावली तु अश्वगर्दभादीनामपि
जगत्कर्तृत्व-मीमांसा-७