SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ चाभीष्टवस्तु जातं दूरादपि ग्रहणसमर्थः स्यात् तथा चान्यत् स्थले स्थापयितु वा प्रभवेत् । __सिंह-व्याघ्र-हस्तिवचनं निशम्य ह्रषाध्वनिमकुर्वन् अश्वः झटित्युत्थाय अवदत्-स खलु भगवान् सकल चराचरसृष्टि-कर्ता, पालन-कर्ता, सृष्टि-सञ्चालकश्चास्ति । स तु त्वरितगतिकः स्कन्धे धूसरितकेशराशिवान् । एकस्मात् स्थानात् अपरं स्थानं त्वरिततमगत्या गन्तु प्रभवेत् । यथा-तस्य वेगवत् स्वरूपांशो मयि दरीदृश्यते । इत्युक्त्वाश्वः उपाविशत् । तदनन्तरे ककुदमान् वृषभः समुत्थाय वक्त मुपाचष्टे 'मत् पूर्वसम्भाषिणां केषामपि वचनमादरपदवीं नैव भजते । यतो हि चराचर-रक्षकस्य सृष्टिकर्तु-रीश्वरस्य केशपाशेन, पीतश्यामलवर्णाभ्यां शुण्डादण्डेन लिङ्गत्या वा किं प्रयोजनम् ? यः खलु परमात्मा विश्वम्भरः विश्वभारोद्वहनसमर्थः, स तु हृष्टः पुष्टः, ककुभानि वा सौम्यशरीरः स्यात् । यथा च मम शरीराकृतौ तस्य परमात्मनो भारोद्वहनसामर्थ्य स्फुटीभूतम् । पूर्ववक्तृणां ईश्वरस्वरूप-प्रस्तावमभिश्रु त्य अतीवसरलः गर्दभो व्याचष्टे, एषा तु तादृशी वार्ता सजाता यथा च श्वान-शृगालयोः मांसलिप्तास्थि संकर्षणे भवति । जगत्कर्तृत्व-मीमांसा-६
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy