SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ उपसंहार प्रपञ्चाञ्चितस्यास्य संसारस्य न कोऽपि कर्त्ता परमेश्वरः, परमात्मा, न देवो न दानवः, न मनुष्यास्तिर्यंचो वेति । न चाऽपि ब्रह्मा-विष्णु-महेश्वराः । नायं विश्वो भूतकालेऽपि केनाऽपि प्राणिनारचितः, न वर्त्तमानकालेऽपि चाऽस्य निर्माता कश्चित्, न भविष्यतीत्यवधार्यम् । एतावतैव सर्वज्ञविभुभाषित जैनदर्शने त्रिकालदर्शिभिस्तीर्थङ्करैः श्रुतकेवलीभिर्गणधरैमहर्षिभिश्च पूज्यागमशास्त्रेषु विश्वकर्तृत्वविषये यत्त्रिकालाबाधितं प्रोक्तं तत् तु सत्यं वास्तविकञ्चेति । तदाधारेणैव मयाऽपि विश्वकर्तृत्वमीमांसा संग्रथितेति विज्ञाय तत्र ज्ञाताज्ञातभावेन गच्छतः स्खलेनन्यायेन वा क्वचिदपि मदीया त्रुटिश्चेत् 'मिच्छामि दुक्कड' कृत्वा वच्मि - यदयं संसारोऽनाद्यनन्तश्चेति । शिवमस्तु सर्वजगतः, , परहित- निरता भवन्तु भूतगरणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवन्तु लोकाः ॥ १ ॥ 00
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy