SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ तत्रैकत्वचर्चस्तावत् । बहूनामेककार्यकरणे वैमत्यसम्भावना इति नायमेकान्तः । अनेककीटिकाशतनिष्पाद्यत्वेऽपि शक्रमनः, अनेकशिल्पिकल्पितत्वेऽपि प्रासादादीनां नैकसरघानिर्वतित्त्वेऽपि मधुच्छत्रादीनां चैकरूपताया अविगानेनोपलम्भात् । अथ तेष्वप्येक एव ईश्वरः कर्तेति ब्रषे। एवं चेद् भवता भवानीपति प्रति निष्प्रतिमा वासना, तहि कुविन्द कुम्भकारादितिरस्कारेण पटघटादीनामपि कर्ता स एकः किं न कल्प्यते। ___ अथ तेषां प्रत्यक्षसिद्ध कत्त त्वं कथमपह्नोतु शक्यम् ? तहि कोटिकादिभिः किं तव विराद्धं यत् तेषामदृश्यतादृशप्रयाससाध्यं कर्तृत्वमेकहेलय चापलप्यते, तस्माद् वैमत्यभयाद् महेशितुरेकत्वकल्पना भोजनादिव्ययभयात् कृपणस्यान्तवल्लभपुत्रकलत्रादि परित्यजनेन शून्यारण्यानीसेवनमिवास्ते । तथापि सर्वगतत्वमपि तस्य नोपपन्नम्। तद्धि शरीरात्मना ज्ञानात्मना वा स्यात् ? प्रथमपक्षे तदीयेनैव देहेन जगत्त्रयस्य व्याप्तत्वाद् इतरनिर्मेय पदार्थानामाश्रयानवकाश: । विश्वकर्तृत्व-मीमांसा-१६
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy