________________
तथापि सैव केषाञ्चिद् निचितनिकाचित' पापकर्म-कलुषितात्मनां रुचिरूपतया न परिरमते । अपुनर्बन्धका-२ दिव्यतिरिक्तत्वेनायोगत्वात् । तथा च कादम्बर्यां बाणोऽपि बभारण-'अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखमुपदेशगुणाः । गुरुवचनमपि सलिलमिव महदुपजनयति श्रवणस्थितं शूलमभव्यस्य' इति । अतो वस्तुवृत्या न तेषां भगवाननुशासक इति ।
न चैतावता जगद्गुरोरसामर्थ्यसम्भावना। न हि कालदष्टमनुज्जीवयन् समुज्जीवितेरदष्टका विषभिषगुपालम्भनीयः, अतिप्रसङ्गात् । स हि तेषामेव दोषः । न खलु निखिल भुवनाभोगमवभासयन्तोऽपि भानवीयाः भानवः, कौशिकलोकस्यालोकहेतुतामभजमाना उपालम्भ
१. उदये संकममुदये चउसुवि दादु कमेणणो सक्कं । उवसंतं च णित्ति णिकाचिदं होदिजं कम्मं ।।
[गोम्मटसार कर्मकाण्ड गाथा-४४०] २. पावं ण तिव्वभावा कुणइण बहुमन्नई भवं घोरम् । उच्चि अBिइं च सेवइ सव्वत्थवि अपुणबन्धोत्ति ।।
[धर्मसंग्रह तृतीयाधिकरण ३. बाणभट्टकृतकादम्बरी, पूर्वाद्ध पृ. १०३, पं. १०
विश्वकर्तृत्व-मीमांसा-१३