SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ कल्प्यते, स नित्योऽनित्यो वा स्यात् ? नित्यश्चेत् अधिकृतेश्वरेण किमपराद्धम् । अनित्यश्चेत्, तस्याप्युत्पादकान्तरेण भाव्यम् । तस्यापि नित्यानित्यकल्पनायां अनवस्थादौस्थ्यमिति । ____ तदेवमेकत्वादि-विशेषणविशिष्टो भगवान् ईश्वरस्त्रिजगत्कर्ता इति । पराभ्युपगममुपदर्य उत्तरार्धन तस्य दुष्टत्वमाचष्टे । इमाः-एताः; अनन्तरोक्ताः कुहेवाकविडम्बनाः विचारचातुरीबाह्यत्वेन तिरस्काररूपत्वाद् विगोपकप्रकाराः । स्युः भवेयुः । तेषां प्रामाणिकापसदानाम् । येषां हे स्वामिन् ! त्वं नानुशासक:-न शिक्षादाता । तदभिनिवेशानां विडम्बना रूपत्व ज्ञापनार्थमेव पराभिप्रेतपुरुष-विशेषणेषु प्रत्येकं तद् शब्दप्रयोगमसूयागर्भमाविर्भावयाञ्चकार स्तुतिकारः । तथा चैवमेव निन्दनीयं प्रति वक्तारो वदन्ति । स मूर्खः स पापीयान् स दरिद्र इत्यादि । त्वमित्येकवचनसंयुक्तयुष्मद् शब्दप्रयोगेण परमेशितुः परमकारुणिकतयानपेक्षितस्वपरपक्षविभागमद्वितीयं हितोपदेशकत्वं ध्वन्यते । . अतोऽत्रायमाशयः । यद्यपि भगवानविशेषेण सकलजगज्जन्तुजातहितावहां सर्वेभ्य एव देशनावाचमाचष्टे, विश्वकर्तृत्व-मीमांसा-१२
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy