SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ (२) अस्तित्वहीनवस्तुकारणानामाकस्मिक फलत्वाजजगत् कार्यम् ? (३) एतत् केनापि बुद्धिमता निर्मितमिति स्वीकृतत्वात् कार्यम् ? ___(४) परिवर्तनशीलत्वाद् विकारित्वाद् वा जगत् कार्यम् ? एवं चेत् सावयवस्य किं तात्पर्यम् । यद्यस्य तात्पर्यम्अवयवानामस्तित्वाद्यानं तर्हि अवयवेषु विद्यमानं सामान्यमपि कार्यरूपेण भवेत् । तदा तेषां विनश्वरता सिद्धयत, किन्तु तत्तु नैयायिकैरवयवहीनमनादि स्वीक्रियते । यदि तस्य तात्पर्यमवयवादस्ति-यस्यानेकेऽवयवा भवन्त्यिति तहि गगनस्यापि कार्यत्वं स्वीकार्यम्, किन्तु नैयायिकास्तान् नित्यमामनन्ति । पुनः कार्यस्य तात्पर्यमेकमस्तित्वहीनवस्तुनः कारणानामाकस्मिकसंगतित्वम् । यानि पूर्व विद्यमानानि नासन्, तानि पश्चादपि भवितु नाहन्ति एवं सति वयं जगत्कार्यमिति वक्त न समर्थाः । यतो हि पृथ्व्यादितत्त्वानामणवो नित्याः स्वीक्रियन्ते । यदि कार्यस्य तात्पर्य केनापि निर्मितमिति गृह्यते तदा आकाशोऽपि कार्य स्यात् । यदा कश्चिद् भूखननं विधाय विश्वकर्तृत्व-मीमांसा-३
SR No.022444
Book TitleVishva Kartutva Mimansa Evam Jagat Kartutva Mimansa
Original Sutra AuthorN/A
AuthorSushilsuri, Jinottamvijay
PublisherSushil Sahitya Prakashan Samiti
Publication Year1996
Total Pages116
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy