________________
नयरहस्यप्रकरणम्।
-
-
ज्ञानात्मकत्वोभयनयविषयसमावेशविरोधात् प्रत्येकमनयत्वमाशङ्कनीयम्, तादात्म्येनोभयरूपासमावेशेऽपि समस्त्येवेत्यत आह-बाह्यप्रस्थकस्यापीति-वामस्य प्रस्थकत्वाभावे बाह्यप्रस्थकस्याप्रसिद्धया 'बाह्यप्रस्थकस्याऽपि' इत्युक्तिन घटत इति न वाच्यम् , एतेषां मतेऽसत्ख्यातेरुपगमेन तदाश्रयणेन तथोक्तिसम्भवात् , यत् तु-प्रस्थकत्वेनाभिमतबाह्यस्थापीति तदर्थ इति, तन्नउपयोगानतिरेकाश्रयणे सर्वस्यापि ज्ञानरूपतया बाह्यस्य कस्यचिदभावादसत्ख्यातिमन्तरा तदर्थस्याप्यघटमानत्वादिति बोध्यम् , यद्यपि बाह्यवस्तुवादिना वाहप्रस्थकस्यानुपलम्भकालेऽपि सत्त्वं स्वीक्रियत एवेति 'अनुपलम्भकालेऽसत्त्वेन' इत्येवासिद्धं तथापि मानाधीना वस्तुव्यवस्थितिरिति यद् यदोपलभ्यते तदैव तदस्ति तदज्ञानकाले तत्सत्त्वे मानाभावादित्यभिप्रायेणेत्थमुक्तिः । ननु भवतु यद् यदोपलभ्यते तदैव तत्सत्त्वं तदापि ज्ञानसमानकालीनमेव बाह्य वस्त्वस्तु न तु तदभाव इत्यत आह-उपयोगानतिरेकाश्रयणादिति-यद् येन सहैवोपलभ्यते तत् तद्रूपम् , यथा वस्तुनः स्वरूपम् , स्वोपयोगेन सहैवोपलभ्यते वाह्य वस्त्वित्युपयोगरूपं तदित्येवमुपगमादित्यर्थः । नन्वेवं न केवलं वाह्यप्रस्थकस्यैवोपयोगरूपत्वं घटादीनामप्युपयोगरूपत्वं प्रसज्यते ज्ञानविषयताया ज्ञानतादात्म्यनियतत्वादिति चेद् , अस्त्वेवम् , का नो हानिः ? एतेषां त्रयाणामपि नयानां ज्ञानाद्वैतनयानुप्रवेशस्यानुमतत्वादित्याह-अन्तत इति । ननु 'अनतिरेकाद् ज्ञानाद्वै. ताद्' इत्यनुक्त्वा 'अनतिरेकाश्रयणाज्ज्ञानाद्वैतनयानुप्रवेशाद्' इत्येवमभिधानतः स्वयमज्ञानात्मकत्वमभिमतं बाह्यस्य, नयान्तरेण च ज्ञानात्मकत्वमित्युभयनयविषयोऽर्थः, तत्समावेशो नैकस्मिन् नये घटत इति ज्ञानात्मकत्वविषयकस्य नयस्याज्ञानात्मकत्वविषयकस्य नयस्य प्रत्येकं ज्ञानात्मकत्वाऽज्ञानात्मकत्वोभयविषयकत्वाभावादनयत्वमासक्तमित्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'आशङ्कनीयम्' इत्यनेनान्वयः । येन नयेन बाह्यस्य ज्ञानात्मकत्वमुपदर्श्यते तेन नयेन