________________
४८
प्रमोदाविवृतिसंवलितं
तहि प्रस्थकेन धान्यं मीयत इति ? करणरूपानुप्रविष्टस्य क्रियारूपाप्रवेशादिति चेत् , सत्यम्-विवक्षाभेदादुभयरूपानुप्रवेशोपपत्तेरिति दिक् ।।
शब्दसमभिरूढैवम्भूतास्तु प्रस्थकाधिकारज्ञगतात् प्रस्थककर्तृगताद् वा प्रस्थकोपयोगादतिरिक्तं प्रस्थकं न सहन्ते, निश्चयमानात्मकप्रस्थकस्य जडवृत्तित्वायोगात्, बाह्यप्रस्थकस्याप्यनुपलम्भकालेऽसत्त्वेनोपयोगानतिरेकाश्रयणाद् अन्ततो ज्ञानाद्वैतनयानुप्रवेशाद्वा । न च ज्ञाना. कथमित्याक्षेपे, ततश्च न कथञ्चिदित्यर्थः । तत्र हेतुमाह-करणेति । करणत्वविवक्षया करणरूपानुप्रवेशः कर्मत्वविवक्षया क्रियानुप्रवेश इत्येवमभ्युपगमे उभयरूपानुप्रवेशसम्भवादिति समाधत्ते-सत्यमितिस्यादेव भवदाक्षिप्तं यदि विवक्षाभेदो न भवेदित्यनुमोदनार्थमेतत्। प्रकृते तु विवक्षामेदोऽस्तीत्याह-विवक्षाभेदादिति । उभयरूपेति-करणक्रियोभयरूपेत्यर्थः।
त्रयाणां शब्दनयानांप्रस्थकविषये समानाभिप्रायाणां वक्तव्यमुपदर्शयति-शब्द-समभिरूलैवम्भूतास्त्विति-अस्य 'न सहन्ते' इत्यनेनान्वयः । प्रस्थकेति-प्रस्थकेन धान्यं मीयत इति प्रस्थकस्य धान्यमाननिश्चयनं प्रयोजनमिति यो जानाति स प्रस्थकाधिकारशः पुरुषस्तद्गतात् तवृत्तेः। वा अथवा । प्रस्थककर्तृगतात् प्रस्थकनिर्माणकर्तृपुरुषवृत्तेः। प्रस्थकोपयोगात् प्रस्थकज्ञानात् । अतिरिक्तं भिन्न प्रस्थकं न सहन्ते नाभ्युपगच्छन्ति । तथा चैतेषां मते प्रस्थकोपयोग एव प्रस्थक इत्यर्थः । कथं न सहन्त इत्यपेक्षायां तत्र हेतुमाह-निश्चयेति-प्रस्थकपरिमितमेतद्धान्यमित्याकारकं यनिश्चयमानं तदात्मकस्तद्रूपो यः प्रस्थकस्तस्य । जवृत्तित्वायोगात् जडधर्मत्वासम्भवात् , अत्र 'जडत्वायोगाद्' इत्युक्तावपि निर्वाहे वृत्तिपदाधिकमिति चिन्त्यम् । येन धान्यं मीयते तदपि बाह्य वस्तु प्रस्थक इति व्यपदिश्यते, तत्र जडवृत्तित्वं