________________
नयरहस्यप्रकरणम् ।
नुप्रवेश इति चेत्, न नैगमोपगतसङ्ग्रहणाय काचित्कतथोपगमेन तदननुप्रवेशात् । इत्थं च व्यक्ति भेदात् तद्यक्तिगतं प्रस्थकत्वसामान्यमपि नास्तीति नात्र कश्चिद् दोषो विना व्यवहारबाधमिति दिक् ।
४७
ऋजुसूत्रस्तु - निष्पन्नस्वरूपोऽर्थक्रिया हेतुः प्रस्थकः, तत्परिच्छिन्नं च धान्यमपि प्रस्थक इत्याह, उभयसमाजादेव मानोपपत्तेरेकतराभावे परिच्छेदासम्भवात् । कथं
द्रव्यभेदाभ्युपगमप्रवणता, ऋजुसूत्रस्य तु नैवम्भाव इति न तन्मतप्रवेश इति समाधत्ते-नेति । तदननुप्रवेशाद् ऋजुसूत्रमताननुप्रवेशात् । इत्थं च धान्यमापविशेपलक्षणार्थक्रियाफलोपधायिप्रस्थकद्रव्यात् तादृशफलोपधानशून्यप्रस्थकद्रव्यस्य भिन्नत्वव्यवस्थितौ च । तद्व्यक्तिगतं तादृशफलोपहितप्रस्थकव्यक्तिगतम् । प्रस्थकत्वसामान्यमपि यत् प्रस्थकत्वसामान्यं तदपि । नास्ति फलानुपहितप्रस्थकव्यक्तौ नास्ति । इति-अतः । अत्र एवमभ्युपगमे । न कश्चिद् दोषो विना व्यवहारबाधं व्यवहारबाधं विना नान्यः कोऽपि दोषः, अर्थाद् व्यवहारबाध एव बलीयानत्र दोषः, व्यवहियते चार्थक्रियाऽकरणकालेऽप्ययं प्रस्थक इति तस्याप्रस्थकत्वे स्यादेव व्यवहारबाध इत्यर्थः ।
ऋजुसूत्र मन्तव्यमुपदिशति - ऋजुसूत्रस्त्विति - अस्य 'आह' इत्यनेन सम्बन्धः। तत्परिच्छिन्नं धान्यमानविशेषकाष्ठादिनिर्मितप्रस्थकपरिच्छिन्नम् । उभयसमाजादेव मापकप्रस्थक- माप्यधान्योभयत एव । मानोपपत्तेःपतत्परिमितं धान्यमित्याकारकपरिच्छेदलक्षणमानोपपत्तेः । एकतराभावे परिच्छेदकस्य मापकस्याभावे परिच्छेद्यस्य माप्यस्य धान्यस्याभावे वा । ननु धान्यं मीयमानत्वात् कर्म, प्रस्थकश्च माने साधकतमत्वात् करणम्, करणे प्रस्थके धान्यस्य प्रवेशाभ्युपगमे कर्मतया तद्व्यपदेशो न स्यात् कर्मत्व- करणत्वयोर्विरोधादित्याशङ्कते - कथं तहीति