________________
प्रमोदाविवृतिसंवलितं
क्रियाकारित्वस्यैव तदात्मकत्वप्रयोजकत्वात् । तथापि प्रस्थकक्रियाविरहे नायं प्रस्थको घटायनात्मकत्वाच नाप्रस्थक इत्यनुभयरूपः स्यात् ? न स्यात्-प्रतियोगिकोटौ स्वस्यापि प्रवेशेन यावद्घटाद्यनात्मकत्वासिद्धेः। अर्थक्रियाभावाऽभावाभ्यां द्रव्यभेदाभ्युपगमे ऋजुसूत्रमतासमाधत्ते-नेति । ननु. प्रस्थकस्य स्वासाधारणकार्याकरणकाले न प्रस्थकत्वं घटाद्यर्थक्रियाकारित्वाभावेन घटाद्यनात्मकत्वान्नाप्रस्थकत्वमिति प्रस्थकाप्रस्थकान्यतरस्वभावविकलोऽयं स्यात् , स चाभ्युपगन्तुमशक्यः परस्परविरोधे एकनिषेधेऽपरस्यावश्यम्भावादित्याशङ्कते-तथापीति-असाधारणघटाद्यर्थक्रियाकारित्वाभावाद् घटाद्यात्मकत्वाभावेऽपीत्यर्थः। यथा-घटादिकः प्रस्थकभिन्नत्वादप्रस्थकस्तथा प्रस्थकत्वेनाभिमतोऽपि प्रस्थकासाधारणार्थक्रियाकरणाभावकाले प्रस्थकभिन्नत्वादप्रस्थक इति अप्रस्थकभेदप्रतियोगिकोटौ तस्यापि प्रवेश इति 'नाप्रस्थकः' इत्येव नाङ्गीक्रियत इत्यनुभयरूपतापादनं न सम्भवतीति समाधत्ते-न स्यादिति । अनुभयरूपतापादनं न भवेदित्यर्थः प्रतियोगिकोटौ 'नाप्रस्थकः' इत्यस्य प्रतियोगी अप्रस्थकस्तत्कोटौ तत्स्वरूपे । स्वस्यापि प्रस्थकासाधारणार्थक्रियाकरणविरहकाले यः प्रस्थकः प्रस्थकभिन्न इति निर्णीतस्तस्यापि । प्रसिद्धघटाधनात्मकत्वेऽपि अप्रस्थकपदेन प्रस्थकानात्मका यावन्तो घटाद्यात्मका अभिमतास्तन्मध्येऽस्यापि प्रवेशेन घटाद्यनात्मकत्वासिद्धः-घटायनात्मकत्वासम्भवात् । ननु अभिन्नद्रव्याभ्युपगन्तृत्वं सङ्ग्रहस्वभावः, प्रकृते प्रस्थकद्रव्यं स्वार्थक्रियाकरणकाले प्रस्थकस्वरूपं स्वार्थक्रियाकरणाभावकाले ततोऽन्यदेव संवृत्तमिति द्रव्यभेदाभ्युपगन्तृत्वादुक्तस्वभावप्रच्युतेन सङ्ग्रहत्वं किन्तु भेदलक्षणविशेषाभ्युपगन्तृत्वादृजुसूत्रनयत्वमेव स्यादित्युक्ताभ्युपगमस्य ऋजुसूत्रमतानुप्रवेश इति शङ्कते-अर्थक्रियाभावाभावाभ्यामिति । अतिशुद्धनैगमोऽर्थक्रियाकरणकालीनमेव प्रस्थकमाश्रयति, तं चायं सालातीति प्रकृते तथास्वभावभावेऽपि नान्यत्र