________________
नय रहस्यप्रकरणम् ।
सङ्ग्रहस्तु विशुद्धत्वात् कारणे कार्योपचारं कार्याsकरणकाले च प्रस्थकं नाङ्गीकुरुते । न च तदा घटाद्यात्मकत्वप्रसङ्गः, तदर्थक्रियां विना तत्त्वायोगात् । घटादिशब्दार्थक्रिया तत्राप्यस्त्येवेति चेत्, न- असाधारणतदर्थ
४५
व्यवहारेऽप्युक्तदिशैव शुद्धितारतम्य भावने त्याह-व्यवहारेऽपीति । प्रस्थके संग्रहवक्तव्यमुपदर्शयति-सङ्ग्रहस्थिति- वनगमनादिकं परम्परया प्रस्थककारणम्, तत्र प्रस्थकलक्षणकार्योपचारं कृत्वाऽशुद्धे नैगमेऽशुद्धे व्यवहारे च प्रस्थकव्यपदेशः, सङ्ग्रहस्तु विशुद्धत्वात् कारणे कार्योपचारं नाङ्गीकुरुते, धान्यमापनलक्षणस्वकार्याकरणकाले च निष्पन्नमपि प्रस्थकं प्रस्थकत्वेन रूपेण नाङ्गीकुरुते, किन्तु धान्यमापन विशेषलक्षणक्रियाकरणवेलायामेव प्रस्थकमङ्गीकरोतीत्यर्थः । ननु निष्पन्नमपि प्रस्थकस्वरूपं स्वकार्याकरणकाले यदि न प्रस्थकस्तदा प्रस्थकान्यत् तत् घटादिस्वरूपमेव भवेदिति घटाद्यात्मकत्वं तत्र प्रसज्यत इत्याशङ्कय प्रतिक्षिपति न चेति । तदा कार्याकरणादिकाले । यथा च प्रस्थको न स्वकार्ये धान्यमापनलक्षणं करोतीति न प्रस्थकस्तथा घटादिकार्य जलाहरणाद्यर्थकियामपि न करोतीति घटाद्यात्मकत्वस्याप्यभावादित्याह - तदर्थक्रियां विनेति - घटादिकार्य जलाहरणाद्यर्थक्रियां विनेत्यर्थः । तत्त्वायोगाद् घटाद्यात्मकत्वासम्भवात् । ननु घटादेर्यथा जलाहरणादिकाऽर्थक्रिया तथा घटादिशब्दप्रयोगोऽपि शब्दप्रयोगश्चेच्छोपरचितः प्रस्थकेऽपि केपा ञ्चित् स्यादिति घटाद्यात्मकत्वं प्रसज्यत एवेत्याशङ्कते - घटादिशब्देति । तत्रापि प्रस्थकेऽपि । नहि दरिद्रे धनाधिपोऽयमिति सङ्केतकरणतो धनाधिप शब्दप्रयोगलक्षणार्थक्रियाकारित्वतो वास्तवधनाधिपात्मकत्वं सम्भवति, किन्तु धनस्वामिन एव धनस्य दानादिलक्षणार्थक्रियाकारित्वतो धनाधिपत्वमिति यदसाधारणार्थक्रियाकारित्वं यस्य तस्य तदात्मकत्वमित्येव नियम इति घटादेरसाधारणार्थक्रिया जलाहरणादिरूषैव तत्कारित्वस्य प्रस्थकेऽभावान्न तत्र घटाद्यात्मकत्वप्रसङ्ग इति