________________
प्रमोदाविवृतिसंवलितं
परेण समं सम्बन्धस्यैवानुपगमात् तादात्म्य-तदुत्पत्त्यन्यतरानुपपत्तेरिति दिक् ।
प्रस्थको मगधदेशप्रसिद्धो धान्यमानविशेषः, तदर्थ वनगमन-दारुच्छेदन-क्षणनोकिरण-लेखन-प्रस्थकपर्यायाविर्भावेषु यथोत्तरशुद्धा नैगमभेदाः, अतिशुद्धनगमस्त्वाकुट्टितनामानं प्रस्थकमाह । व्यवहारेऽप्ययमेव पन्थाः। सर्व हि स्वात्मप्रतिष्ठितमेव, न तु परस्मिन् वृत्तिः, आकाशादिना समं विन्ध्यादीनां सम्बन्ध एव नाभ्युपेयते, वास्तवसम्बन्धस्तादा. त्म्य-तदुत्पत्त्यन्यतरात्मक एव, नहि आकाशादिना समं विन्ध्यादेस्तादात्म्य कार्यकारणभावो वेति सम्बन्धाभावादाकाशादौ विन्ध्यादिर्वतत एव नेति न तवृत्त्यवच्छेदकतयाऽऽकाशादिदेशसिद्धिरित्यर्थः ।
प्रस्थकदृष्टान्तेन नैगमादीनां पूर्वपूर्वापेक्षयोत्तरोत्तरस्य शुद्धिभाक्त्वं भावयति-प्रस्थक इत्यादिना । तदर्थ प्रस्थकार्थम् , प्रस्थकहेतुकाष्ठानयनाथ वनं गच्छन् पुरुषः किं करोषीति पृष्टः प्रस्थकं करोमीत्येव ब्रूते, एवं क्षणनोत्किरणादिक्रियाकाले प्रस्थकपर्यायाविर्भावनक्रियाकालेऽपि च तत्र वनगमनादिकं न प्रस्थकः, किन्तु परम्परया प्रस्थकनिमित्तम् , पारम्पर्येऽपि च विप्रकर्ष-सन्निकर्षतरतमभावाच्छुद्धितारतम्य नैगमाभिप्रायविशेषाणाम् , वनगमनकालेऽपि प्रस्थकं करोमीति यदेतद् व्यवहरणं तगमाभिप्रायत एवेति बोध्यम्, वनगमनादिकं न प्रस्थकोऽथापि प्रस्थकत्वेन तद्यवहरणमित्युपचारमिश्रणाद् वनगमनादिषु प्रस्थकाभिप्रायाणामशुद्धिसम्पर्कः, धान्यमानविशेषरूपस्य प्रस्थकस्य निष्पत्तौ सत्यामयं प्रस्थक इति व्यपदेशस्त्वतिशुद्धनैगमादित्याह-अतिशुद्धनगमस्त्विति । आकुट्टितनामानम् आकुट्टितमापामरप्रसिद्धिं गतं प्रस्थकपर्यायनिष्पत्त्यनन्तरं निर्णीतप्रामाण्यकान्यप्रस्थकमितधान्यान्यूनाधिकावस्थानपरीक्षणतः प्रस्थक इति नाम यस्य तमित्यर्थः।