________________
नयरहस्यप्रकरणम्।
४३.
बोधार्थ कर्मधारयस्यैवावश्याश्रयणीयत्वाद् द्वितीयपक्ष एव युक्त इति। ___एवम्भूतस्त्वाह-देश-प्रदेशकल्पनारहितमखण्डमेव वस्तु अभिधानीयम् , देश-प्रदेशयोरसत्त्वात् , भेदे सम्बन्धानुपपत्तः, अभेदे सहोक्त्यनुपपत्तेः। न च विन्ध्यहिमवदादिभावाऽभावावच्छेदकतयाऽऽकाशादिदेशसिद्धिः,
नियत इत्यभिसन्धिः । क्वचिदिति-वनेतिलका बाह्मणेश्रोत्रिय इत्यादौ । द्वितीयपक्षः-'धर्म धर्म इति वा' इत्यादौ धर्म इत्यादियः प्रथमान्तपक्षः। ____ एवम्भूतनयाभिप्रायमुपदर्शयति-एवम्भूतस्त्वाहेति । 'देशप्रदेशयोरसत्त्वाद् इति यदुक्तं तदुपपादनायाह-भेद इति-धर्मादीनां देशप्रदेशौ धर्मादिभिभिन्नौ स्यातामभिन्नौ वा ? प्रकारान्तराभावात् : मेदे धर्मस्य देशो धर्मस्य प्रदेश इति पष्टयर्थः सम्बन्धो न घटते. मेदे सम्बन्धाभ्युपगमे भिन्नत्वाविशेषादधर्मास्तिकायादिप्रदेशतयाऽभ्युपगतप्रदेशस्यापि धर्मस्य प्रदेश इति व्यवहारभाजनत्वं स्यादधर्मादिप्रदेशस्यापि धर्मसम्बन्धित्वसम्भवात् । अभेदे देश-प्रदेशयोधर्मादिभिः सममभेदे। सहोवत्यनुपपत्तेः, धर्मः प्रदेश इति सहोक्त्यनुपपत्तेः, नहि भवति घटो घट इति । आकाशे विन्ध्याद्रिरपि वर्तते हिमालयोऽपि, परं तयोरसामानाधिकरण्यं लोके प्रतीयते तन्न स्यादिति यत्प्रदेशावच्छेदेन विन्ध्याद्रिस्तत्प्रदेशावच्छेदेन न हिमालयो यत्प्रदेशावच्छेदेन हिमालयो न तत्प्रदेशावच्छेदेन विन्ध्याद्रिरित्यवश्यमभ्युपेयम् , तथा च विरुद्धयोविन्ध्य-तदभावयोर्हिम-तद. भावयोविन्ध्यहिमयोश्चैकत्राकाशे सत्त्वोपपत्तयेऽवच्छेदकतयाऽऽकाशस्य तथा धर्मादेश्च देशप्रदेशसिद्धिः, तत्सम्बन्धिन एव तद्वृत्तिधर्मावच्छेदकत्वमिति नियमेन देश-प्रदेशयोराकाशादिसम्बन्धित्वाभावे तवृत्तिविन्ध्य-तदभावाद्यवच्छेदकत्वमपि न भवेदिति तयोः सम्ब. ग्धसिद्धिरित्याशङ्कय प्रतिक्षिपति-न चेति । निषेधे हेतुमाह-परेणेति