________________
४२
प्रमोदाविवृतिसंवलितं
स्कन्ध इति । अत्र धर्माऽधर्मास्तिकायादेरैक्यात् तत्प्रदेशस्य धर्मास्तिकायादिरूपताऽनतिप्रसक्तेति तथोक्तिः। जीव-स्कन्धयोस्तु प्रतिस्वमनन्तत्वात् कथमधिकृतप्रदेशस्य सकलसन्तानात्मकत्वसम्भव इति विवक्षितप्रदेशे सकलसन्तानकदेशविवक्षितसन्तानात्मकत्वप्रतिपादनाय नोजीवत्व-नोस्कन्धत्वोक्तिरिति ध्येयम् । __समभिरूढस्त्वाह-शब्देनापि न सूक्ष्ममीक्षाश्चक्रे "धर्म प्रदेशः" इत्यादिवाक्यात् "कुण्डे बदरम्" इत्यादेरिव भेदप्रसङ्गात् । कचिदभेदे सप्तमीप्रयोगेऽप्यभेदप्रकारकशयति-अत्रेति । 'धर्माधर्मास्तिकायादेः' इत्यत्रादिपदादाकाशास्तिकायस्य ग्रहणम् । तत्प्रदेशस्य धर्माधर्मास्तिकायादिप्रदेशस्य । तथोक्तिः-धर्म इति अधर्म इति आकाश इत्येवं तत्तत्प्रदेशानामुक्तिः। प्रतिस्वमनन्तत्वाद् जीवानामप्यनन्तत्वात् , पुद्गलस्कन्धानामप्यनन्तत्वात् । 'कथम्' इत्यस्य 'सम्भवः' इत्यनेनान्वयात् कथं सम्भवः ? न कथश्चिदित्यर्थः । अधिकृतप्रदेशस्य विवक्षितैकजीवप्रदेशस्य विवक्षितैकस्कन्धप्रदेशस्य च । सकलसन्तानात्मकत्वसम्भवः सकलजीवलक्षणसन्ता. नात्मकत्वस्य सकलस्कन्धलक्षणसन्तानात्मकत्वस्य च सम्भवः, जीवस्य स्कन्धस्य च प्रदेशसन्तानरूपत्वादेव तत्प्रदेशसम्भव इत्याशयेन सन्तानोक्तिः। विवक्षितप्रदेशे विवक्षितैकजीवप्रदेशे विवक्षितैकस्कन्धप्रदेशे च। सकलेति-सकलजीवसन्तानस्य सकलस्कन्धसन्तानस्य च एकदेशो यो विवक्षितसंतानो विवक्षितैकजीवलक्षणसन्तानो विवक्षितैकस्कन्धलक्षणसन्तानश्च तदात्मकत्वप्रतिपादनायेत्यर्थः, अन्यत् स्पष्टम्।
समभिरूढनयवक्तव्यमुपदर्शयति-समभिरूढस्त्वाहेति। भेदप्रसङ्गादितिआधाराधेयभावबोधनायैव सप्तमी प्रयुज्यते, आधाराधेयभावश्च भेद.