SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ नयरहस्यप्रकरणम्। शब्दनयस्तु प्रतिजानीते-अयुक्तमुक्तमेतद् ऋजुसूत्रेण, भजनाया विकल्परूपत्वेनैकतरमादाय विनिगन्तुमशक्यत्वात् , धर्मास्तिकायप्रदेशस्थापि अधर्मास्तिकायत्वेन भजनीयत्वप्रसङ्गात् । तदेवमभिधेयम्-धर्म धर्म इति वा प्रदेशो धर्मः, अधर्मेऽधर्म इति वा प्रदेशोऽधर्मः, आकाश आकाश इति वा प्रदेश आकाशः, जीवे जीव इति वा प्रदेशो नोजीवः, स्कन्धे स्कन्ध इति वा प्रदेशो नोनाप्रकारमाह-प्रदेशः स्याद् धर्मास्तिकायस्येति-'प्रदेशः' इति स्यादधर्मास्तिकायस्येन्यादावन्यनुपञ्जनीयः, आदिपदात् प्रदेशः स्यादाकाशास्तिकायस्येत्यादेरुपग्रहः। अत्राथै शब्दनयवक्तव्यमुपदर्शयति-शब्दनयस्त्विति । अयुक्तमितिऋजुसूत्रेणोक्तमेतदयुक्तमित्यन्वयः, एतद् भजनीयत्वम् । अयुक्ततामेव भावयति-भजनाया इति-प्रदेशप्रदेशिमद्भावस्य काल्पनिकत्वेन भजनीयत्वे कल्पना विकल्परूपेच्छामात्रप्रभवेति यद्धर्मास्तिकायप्रदेशन्वेन विकल्पितं तत् तथाविकल्पदशायां धर्मास्तिकायस्य प्रदेश इत्येवं व्यपदेश्यः, तदन्यथाविकल्पमावे न धर्मास्तिकायस्य प्रदेश इत्येवं व्यपदेश्य इत्यतः स्याद धर्मास्तिकायस्य प्रदेशः, तद्दिशा स्थादधर्मास्तिकायस्य प्रदेश इति भजना ऋजुसूत्रसम्मता, तथा चेयमिच्छाप्रभवा विकल्परूपा भजना, न वस्तुपरतन्त्रेति प्रतिनियतमेव कमप्युपादाय स्यादित्यन नियामकाभावाद्यं धर्मास्तिकायप्रदेशं परिकल्प्य स्याद धर्मास्तिकायस्थ प्रदेश इति भजना, तमुपादायापि स्यादधर्मास्तिकायस्य प्रदेश इत्यपि प्रसज्येतेत्याशयेनाह-विकल्परूपत्वेनेति। शब्दनयः स्वाभिमतं दर्शयति-तदेवनितिधर्माधर्माकाशप्रदेशानां धर्माधर्माकाशरूपतया व्यपदेशः, जीवप्रदेशस्य जीवरूपत्वेन न व्यपदेशः, किन्तु नोजीवत्वेन, स्कन्धप्रदेशस्य न स्कन्धरूपत्वेन व्यपदेशः, किन्तु नोस्कन्धत्वेनेत्यत्र हेतुमुपद
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy