________________
४०
प्रमोदाविवृतिसंवलितं
wmmmmmmmm
मान्यविश्रामेऽनन्वयात् , विशेषविश्रामे च भजनानामान्तरत्वात् । न तृतीयः-अतिरिक्तभेदानिरुक्तेः । ततो भाज्यः प्रदेशः स्याद् धर्मास्तिकायस्य, स्यादधर्मास्तिकायस्येत्यादि। पञ्चविधत्वं पञ्चप्रकारकबुद्धिविषयत्वम् , तच्च प्रत्येकं प्रत्येकधर्मप्रकारकवुद्धिविषयत्व प्रदेश इति यदि सामान्यविश्रामं तदाऽनन्तप्रदेशास्तत उपस्थितास्तत्र प्रत्येकं पञ्चसु पञ्चधर्मान्तर्गत प्रत्येकधर्मप्रकारकबुद्धिविषयत्वस्यान्वयसम्भवेऽपि, ततोऽवशिष्टेषु प्रत्येकमपि तस्यान्वयासम्भवात् । यदि च पञ्चप्रकारकबुद्धिविषयत्वं पञ्चान्तर्गततत्तद्धर्मप्रकारकबुद्धिविषयत्वमिति न विवक्षितम् , किन्तु यत्र प्रदेशे यद्धर्मप्रकारकवुद्धिविषयत्वसम्भवस्तत्र तदेव विवक्षितमित्येवं विशेषविश्रामेऽन्वयसम्भवेऽपि पञ्चप्रकारत्वं षट्प्रकारत्वं सप्तप्रकारत्वमित्यादि सर्वमपि सम्भवतीति सर्वप्रकारे प्रत्येकधर्मप्रकारकवुद्धिविषयत्वस्य स्वासाधारणधर्ममादाय तत्तत्प्रदेशे सम्भवादिति भजनैवात्र पदं दधातीत्याह-विशेषविश्रामे चेति । भजनानामान्तरत्वादिति-तत्तत्प्रदेशे तत्तदसाधारणधर्ममुपादाय प्रत्येकं प्रत्येकधर्मप्रकारकवुद्धिविषयत्वान्वयतः पञ्चप्रकारकबुद्धिविषयत्वस्य समर्थने धर्मप्रदेशे धर्मास्तिकायप्रदेशत्वप्रकारकबुद्धिविषयत्वमधर्मप्रदेशेऽधर्मास्तिकायप्रदेशत्वप्रकारकवुद्धिविषयत्वमित्यादि दिगेवाश्रिता, एवञ्च प्रदेशो धर्मास्तिकायस्य, प्रदेशोऽधर्मास्तिकायस्येत्येवं दिशैव व्यपदेशः प्राप्नोति, तत एव प्रत्येकधर्मप्रकारकबुद्धिविषयत्वप्राप्तेरित्येवं भजनैव नामान्तरेणाभिहिता स्यात् , सा चे दैव ऋजुसूत्रस्येति भावः। प्रकारो भेद इति पञ्चप्रकारत्वं पञ्चभेदत्वमिति तृतीयपक्षोऽपि न समीचीन इत्याह- न तृतीय इति । भेदो नाम यदि कश्चिन्निर्वचनीयो भवेत् तदा स्यादपि पञ्चभेदत्वं प्रदेशानाम् , तस्यैव निर्वचनमशक्यमित्याह-अतिरिक्तेति-तत्तत्प्रदेशातिरिक्त इत्यर्थः। एवं चात्र यदृजुसूत्रस्याभिमतं तदुपदर्शयति-ततो भाज्य इति । भज