________________
नयरहस्यप्रकरणम् ।
३९
मिति चेत् , कः प्रकारः १ संख्या वा वुद्धिविशेषविषयत्वं वा, भेदो वा । नाद्यः-अनन्तेषु प्रदेशेषु पञ्चसंख्यावधारणासिद्धः । न द्वितीयः-पञ्चप्रकारबुद्धिविषयत्वस्य प्रत्येकमभाविनः पञ्चस्वप्यभावात् । न च गेहेषु शतमश्वा इतिवत् प्रत्येकं प्रत्येकधर्मप्रकारकवुद्धिविषयत्वं तत् सा
तदसिद्धः प्रदेशसामान्यस्यासिद्धेः। प्रदेशे पञ्चविधत्वमपि निरुच्य योजयितुमशक्यमित्याह-किञ्चेति । अत्र प्रदेशे । नाद्य इति-पञ्चप्रकारत्वमित्यत्र प्रकारः सङ्ख्यारूपो न सम्भवतीत्यर्थः । धर्मास्तिकायादिषु कस्यचिदसङ्ख्यातः प्रदेशः कस्यचिदनन्तः प्रदेश इति सामान्यतः प्रदेशानामानन्त्यमेव, तत्र पञ्चसङ्ख्यकत्वरूपस्य पञ्चप्रकारत्वस्यावधारणासम्भवादित्याह-अनन्तेष्विति । पञ्चप्रकारत्वमित्यत्र प्रकारपदेन बुद्धिविशेषविषयत्वभिमतमिति द्वितीयपक्षोऽपि न युक्त इत्याहन द्वितीय इति । यद्यपि प्रकारस्य वुद्धिविशेषविषयत्वरूपत्वे तत्र पश्चान्वये पञ्चप्रकारत्वमिति पञ्चबुद्धिविशेषविषयत्वमिति स्यान्न तु पञ्चप्रकारकवुद्धिविशेषविषयत्वम्, तथापि बुद्धिविशेषविषयत्वस्य प्रकाररूपताश्रयणस्यात्रैव तात्पर्यमित्यवलम्ब्य ‘पञ्चप्रकारकवुद्धिविषयत्वस्य' इत्युक्तिः । प्रत्येकम् एकैकप्रदेशव्यक्तौ । अभाविनः-असतः। पञ्चस्वप्यभावादिति-प्रत्येकावृत्तिधर्मस्य समुदायावृत्तित्वमिति नियममाश्रित्येयमुक्तिः । ननु यथैकस्मिन् गेहे एकोऽश्वस्तदन्यस्मिन् द्वितीयः, एवं गेहान्तरेऽश्वान्तरमित्येवमश्वशतगृहसम्बन्धे भवति गेहेषु शतमश्वा इति प्रतीतिः, न च प्रत्येकमश्वस्य बहुगेहसम्बन्धो नवाऽश्व. शतस्य प्रत्येकगेहसम्बन्धः, तथा प्रत्येक प्रदेशस्य प्रत्येकधर्मप्रकारकबुद्धिविषयत्वे पञ्चसु प्रदेशेषु पञ्चप्रकारकबुद्धिविषयत्वं स्यादि. त्याशङ्कय प्रतिक्षिपति-न चेति 'प्रत्येकधर्मप्रकारकवुद्धिविषयत्वं तद' इत्यनन्तरं 'न च' इत्यस्यान्वयः, तदित्यनेन पञ्चप्रकारकबुद्धिविषयत्वस्य परामर्शः। निषेधे हेतुमाह-सामान्येति-पञ्चविधः प्रदेश इत्यत्र