________________
प्रमोदाविवृतिसंवलितं
विषयत्व-तादात्म्याभ्यां तदुभयसमावेशात् । विषयत्वमपि कथश्चित्तादात्म्यमिति तु नयान्तराकूतम् , यदाश्रयणेन 'अर्था-ऽभिधान-प्रत्ययानां तुल्यार्थत्वम् उक्तमिति दिक् । विषये ज्ञानस्य तादात्म्यमेव संसर्ग इति स विषयो ज्ञानात्मेति ज्ञानात्मत्वं तत्र घटत इति तग्राहिणो नयस्य नयत्वमुपपद्यते, येन च मयेन बाह्यस्याज्ञानात्मकत्वमुपदर्श्यते तेन च नयेन विषये ज्ञानस्य विषयत्वमेव संसर्ग इति स विषयोऽज्ञानात्मक इत्यज्ञानात्मकत्वं तत्र घटत इति तग्राहिणो नयस्य नयत्वमुपपद्यत इत्यमेदेनैवोभयरूपसमावेशस्याभावेऽपि विषयत्व-तादात्म्याभ्यामुभयरूपसमावेशः स्यादेवेत्याह-तादात्म्येनेति-अभेदेनेत्यर्थः । ज्ञानात्मकस्याऽज्ञानात्मकाभेदाभावेनाभेदेनोभयरूपसमावेशाभावेऽपीत्याह-उभयेति । तदुभयसमावेशाद् ज्ञानात्मकत्वाऽज्ञानात्मकत्वोभयसमावेशात् । ननु विषयत्वेनापि ज्ञानात्मकत्वमेव नाऽज्ञानात्मकत्वं विषयत्वस्य तादात्म्यरूपत्वादिति कथं विषयत्व-तादात्म्याभ्यामुभयरूपसमावेश इत्यत आहविषयत्वमपीति-तथा च यन्नयेन विषयत्वस्य कथञ्चित् तादात्म्यरूपता तन्नयेन विषयत्वस्याऽज्ञानात्मकत्वनिमित्तत्वं नानाभिप्रेतमित्याशयः। अथवा यन्नयेन विषयत्वं कथञ्चित् तादात्म्यं तन्नयेनैकेनैव विषयत्वलक्षणनिमित्तन ज्ञानात्मकत्वाऽज्ञानात्मकत्वोभयसमावेश इत्याहविषयत्वमपीति । कथञ्चित्तादात्म्यं ज्ञानेन सह विषयस्य कथञ्चित्तादात्म्यम् , कथञ्चित्तादात्म्यञ्च भेदसहिष्ण्वभेद इति ज्ञानात्मकत्वाऽज्ञानात्मकत्वोभयसमावेश इत्याशयः। यदाश्रयणेन नयान्तराभिप्रेतकथञ्चित्तादात्म्यलक्षणविषयत्वाश्रयणेन, 'उक्तम्' इत्यनेनान्वयः । तुल्यार्थत्वम् एकशब्दवाच्यत्वेन तुल्यार्थत्वम् , तच तदा भवेद् यादृशं वाच्यत्वमेकत्र तादृशमेव त्रिषु, तच्च विषयत्वस्य कथञ्चित्तादात्म्यरूपत्वे सत्युपपद्यते, यतः शब्दजन्यबोधविषयत्वादर्थस्य शब्दवाच्यत्वम् , तत्र विषयत्वं तादात्म्यरूपम् , एवं तेन तज्ज्ञानमप्यभिधीयत इति ज्ञान