________________
प्रमोदाविवृतिसंवलितं
पृथक्त्वपरित्यागाद ऋजुसूत्रेण स्वकार्यसाधकत्वेन स्वकीयवर्तमानवस्तुन एवोपगमात्, नाऽस्य तुल्यांश ध्रुवांशलक्षणद्रव्याभ्युपगमः, अत एव नास्याऽसद्घटितभूत. भाविपर्यायकारणत्वरूपद्रव्यत्वाभ्युपगमोऽपि । उक्तसूत्रं त्वनुयोगांशमादाय वर्तमानावश्यकपर्याचे द्रव्यपदोपचारात् समाधेयम् , पर्यायार्थिन मुख्यद्रव्यपदार्थस्यैव चोक्तसूत्रे 'पृथक्त्वं नेच्छति' इत्यस्य न सामान्यतो भेदं नेच्छतीत्यर्थों येन पर्यायार्थिकेष्टभेदानभ्युपगमात् पर्यायार्थिकत्वमस्य न भवेत् , किन्तु अतीतानागतपरकीयभेदलक्षणं यत् पृथक्त्वं तदेव नाभ्युपगच्छति तन्मते वर्तमानक्षणमात्रस्थायि वस्त्वित्यतीतानागतयोरभावात् तदात्मकभेदाभावः, परेण सह नास्ति कश्चित् सम्बन्ध इति परकीयभेदाभावः। उक्तभेदानभ्युपगन्त्रा तेन किमभ्युपेयत इत्यपेक्षायामाह-स्वकार्यसाधकत्वेनेति। तिर्यक्सामान्योलतासामान्यलक्षणद्रव्याभ्युपगन्तृत्वे सत्येव द्रव्यार्थिकत्वम् , तच्चास्य नास्तीत्याहनास्येति । अस्य ऋजुसूत्रस्य, एवमग्रेऽपि । अत एव तुल्यांश ध्रुवांशलक्षणद्रव्याभ्युपगन्तृत्वाभावादेव । यो हि अनुभूतराजपर्यायो वर्तमाने राज्यमकुर्वाणोऽपि द्रव्यतो राजेत्युच्यते, योऽपि च भविष्यति राजा सोऽपि भाविराजपर्यायकारणत्वाद् द्रव्यतो राजेत्युच्यत इति भूतपर्यायकारणं भविष्यत्पर्यायकारणं च द्रव्यम् , तादृशकारणत्वलक्षणद्रव्यत्वमपि नैव ऋजुसूत्रोऽभ्युपगच्छतीत्याह-नास्येति-वर्तमानकाले भूतोऽप्यसन् भाव्यप्यसन् इति तादृशपर्यायनिरूपितकारणत्वरूपद्रव्यत्वमपि वर्तमानकालानवच्छिन्नत्वादसदिति न ऋजुसूत्राभ्युपगमविषयः। तर्हि उक्तसूत्रे द्रव्यावश्यकमित्युक्तेः का गतिरित्यपेक्षायामाह-उक्तसूत्रं विति । वर्तमानावश्यकपर्याये द्रव्यत्वमौपचारिकमेव न वास्तविकमिति तथाविधद्रव्याभ्युपगन्तृत्वेऽप्यस्य न पर्यायार्थिकत्वहानिरित्याह-पर्यायार्थिकेनेति-प्रतिक्षेपादित्यन्तमेका फक्किका ।