________________
नयरहस्यप्रकरणम् ।
आद्यस्य चत्वारो भेदा:-"नैगमः, सङ्ग्रहः, व्यवहारः, ऋजुसूत्रश्च"इति जिनभद्रगणिक्षमाश्रमणप्रभृतयः। ऋजु. सूत्रो यदि द्रव्यं नाभ्युपेयात् तदा "उज्जुसुअस्स एगे अणुवउत्त एगं दवावस्सयं पुहत्तं णेच्छई" त्ति सूत्रं विरुध्येत । ___ "ऋजुसूत्रवर्जास्त्रय एव द्रव्यार्थिकभेदाः" इति तु वादिनः सिद्धसेनस्य मतम् । अतीताऽनागत-परकीयभेदपर्यायमपि स्वीकरोतीति नेतरांशप्रतिक्षेपित्वमस्य । एवं पर्यायार्थिकेऽपीत्याह-तत्प्रतिक्षेपस्येति-इतरांशप्रतिक्षेपस्येत्यर्थः । ग्रन्थान्तरे एतद्विषयविचारो विस्तरतः, अत्रापि तथाविचारे ग्रन्थान्तरस्यैव प्रसङ्गानुप्रसङ्गतो निर्मितिः कृता भवेदिति ग्रन्थान्तरसाध्ये विस्तृतविचारे नायासो विधीयत इत्याह-एतद्विषयविस्तरस्त्विति । अत्र नयरहस्याभिधेऽस्मिन् ग्रन्थे। 'नाभिधीयते' इत्युक्त्यापि निर्वाहे 'अत्र' इत्युक्तिः, नयरहस्यमात्रावेदकस्य संक्षिप्तशरीरस्यास्य ग्रन्थस्य एतद्विषयविस्तरविचारसार्थावभासकसन्दर्भगर्भत्वे सूक्ष्मशरीरत्वाभावतोऽप्रतिज्ञातग्रन्थान्तरतैव स्यान्न तु प्रतिज्ञातार्थनिर्वाह इत्यावेदनाय । __आद्यस्य द्रव्यार्थिकनयस्य । नैगमसङ्ग्रहव्यवहारा द्रव्यार्थिकमेदा इत्यन्येऽभ्युपगच्छन्ति, पूज्यमते ऋजुसूत्रस्यापि द्रव्यार्थिकत्वमिति विशेषस्तत्र युक्तिमुपदर्शयति-ऋजुसूत्रो यदीति । उज्जुसुअस्सैति"ऋजुसूत्रस्य एकोऽनुपयुक्त एकं द्रव्यावश्यकं पृथक्त्वं नेच्छति" इत्यस्मिन् सूत्रे एकद्रव्यावश्यकस्याभ्युपगमाद् द्रव्यार्थिकत्वं पृथक्त्वानभ्युपगमान्न पर्यायार्थिकत्वमिति स्पष्टं प्रतीयते, तञ्च तस्य द्रव्यार्थिकत्वानभ्युपगमे पर्यायार्थिकत्वाभ्युपगमे च विरुद्धयेतेति सूत्रविरोधभयात् पूज्यमतमभ्युपेयमिति। सिद्धसेनमते नैगम-सङ्ग्रहव्यवहारास्त्रयो द्रव्यार्थिकस्य भेदा इत्याह-ऋजुसूत्रवर्जा इति । उक्तसूत्रविरोधपरिहाराय वादिदिवाकरमतं परिष्करोति-अतीतेति-तथा