________________
३२
प्रमोदाविवृतिसंवलितं
[त्पाद-विनाशपर्यायमात्राभ्युपगमप्रवणः, द्रव्यं तु सजातीयक्षणपरम्परातिरिक्तं न मन्यते, तत एव प्रत्यभिज्ञाद्युत्पत्तेः । न चैवमितरांशप्रतिक्षेपित्वाद् दुर्नयत्वम्, तत्प्रतिक्षेपस्य प्राधान्यमात्र एवोपयोगात् , एतद्विषयविस्तरस्तु नात्राभिधीयते अन्धान्तरप्रसङ्गात् । विनाशसामग्री तस्तिरोभावमात्रस्य नोत्पादविनाशौ वास्तविकाबि त्यर्थः। पर्यायमात्रग्राहीति लक्षणं पर्यायार्थिक इति लक्ष्यम् , वस्तुग्रा. हिणः प्रमाणस्य वस्त्वंशग्राहि त्वमपीति तत्रातिव्याप्तिवारणाय मात्रपदम् , लक्षणभागे 'नयः' इत्युक्तौ च तत एव च प्रमाणातिव्याप्तिवारणे मात्रपदं स्वरूपोपरञ्जकज्ञापकमेवेति बोध्यम् । एतन्मयस्य पर्यायमात्रग्राहित्वं भावयति-अयं हीति-हि यतः, अयं पर्यायार्थिकः । नन्वस्य ध्रौव्यलक्षणद्रव्यानभ्युपगन्तृत्धे ध्रौव्यावगाहिप्रतीतेः कथमु. पपत्तिरित्यत आह-द्रव्यं विति-प्रतिक्षणमन्यदन्यदेव वस्तु भवति, सौवसादृश्याञ्च पूर्वापर क्षणयोभदो नावभासते, भेदानवभासनादेव सजातीयक्षणपरम्परैव पूर्वापरभेदेनानध्यवसिता स्थिरमिव प्रतीयते. ऽतः सैव ध्रौव्यं न तु तद्व्यतिरिक्तं द्रव्यमेकं वस्तुभूतं समस्तीत्येवं पर्यायार्थिकनयो मन्यते, सजातीयक्षणपरम्परातिरिक्तं द्रव्यं न मन्यते इत्येतावता सजातीयक्षणपरम्परारूपं द्रव्यं मन्यत इत्यायातमेवेति बोध्यम्। तत एव-सजातीयक्षणपरम्परालक्षणद्रव्यरूपविषयादेव। प्रत्यभिज्ञा द्युत्पत्तेः-सोऽयं घट इत्यादिप्रत्यभिज्ञादिसम्भवात्, आदिपदाद् बन्ध-मोक्षव्यवस्थादेरुपग्रहः । ननु द्रव्यार्थिकनयो यात्पाद-व्ययौ तात्त्विको नाभ्युपगच्छति, पर्यायार्थिकश्च ध्रौव्यमितीतरांशप्रतिक्षेपित्वविशेषणस्योपात्तस्याभावान्नयलक्षणाक्रान्तत्वमपि न स्यादित्याशङ्कय प्रतिक्षिपति-न चेति-'द्रव्यमानत्राही' इत्यस्य प्राधान्येन द्रव्यमात्रग्राहीत्यर्थः, तथा च द्रव्यार्थिकनयः प्राधान्येन द्रव्यमेवाभिमन्यत इत्यतः प्राधान्यमेव पर्याये नान्युपैति गोणतया तु