________________
नय रहस्यप्रकरणम् ।
२९
प्रामाण्यम् । घटस्य रूपादय इत्येकदैवैकवचन बहुवचनप्रयोगः, अत एव शयरूपत्वे कथमेकतरप्रतिपतिरिति परास्तम् । सन्निकर्ष-विप्रकर्षादिवशाद् यथाक्षयोपशमं पादिसमुदितस्वरूप
बाधलक्षणप्रामाण्यसखेऽपि घंटे बहुत्वस्य
स्वलक्षणमवच्छेदकं तस्य घटा इत्येतावन्मात्रप्रयोगेऽनवधूतत्वेन तद्वच्छेद्य बहुत्वस्याप्यनवधृतत्वेन स्वपरव्यवसायित्वलक्षणं प्रामाण्यं यत् स्याद्वाद सिद्धान्तितं तत् तत्र न स्यादेवेत्यथः । यत्र च वाक्ये एकत्व बहुत्वावच्छेदकपदघटितत्वं तत्रावच्छेदकलक्षणनिमित्तभेदत एकदेकत्ववत्वबोधस्य तद्वाक्यतः सम्भवेन तद्घटकतयैकवचन बहुवचनप्रयोगोऽप्युपपद्यत एवेत्याह- घटस्येति-अत्र घटात्मकद्रव्यसम्बन्धितया रूपादयः पर्यायाः प्रतीयन्ते द्रव्य-पर्याययोश्च कथञ्चित् तादात्म्यलक्षणाविष्वग्भाव एव सम्बन्धोऽवभासत इति द्रव्यपर्यायोभयात्मकं वस्त्वेतद्वाक्येन प्रतीयते तत्र वस्तुनि घटत्वलक्षणावच्छेदेनैकत्वप्रतिपत्तये घटस्येत्येकवचनं रूपाद्यनुगतपर्यायत्वावच्छेदेन बहुत्वप्रतिपत्तये रूपादय इति बहुवचनमित्येकवस्तुगततयैक-बहुत्वयोः प्रतिनियतावच्छेदकावच्छेदेन वोधकवाक्यघटकतयैकवचन बहुवचन - प्रयोग उपपन्न इत्यर्थः । अत एव प्रतिनियतनिमित्तावच्छेदेनैकत्र धर्मिणि विरुद्धानेकधर्मप्रतिपत्तेरुपपन्नत्वादेव, अस्य 'परास्तम्' इत्यनेन सम्वन्धः शवरूपत्वे वस्तुनोऽनेकधर्मात्मिकत्वाच्चित्रस्वरूपत्वे । कथं केन प्रकारेण तादृशप्रकारमुपदर्शयितुमशक्यत्वान्न कथञ्चिदित्या क्षेपः । एकतरप्रतिपत्तिः प्रतिनियतैकैकधर्मेण वस्तुप्रतिपतिः । स्वस्त्रनिमित्तलक्षणप्रतिनियतावच्छेदेनैकधर्मप्रतिपत्तिः सुशक्येत्यभिस अत एवेति निर्दिष्टमेव हेतुनुपदर्शयति-सन्निकर्षेतियद्यप्यनन्तधर्मात्मके वस्तुनि सर्वेऽपि तत्रत्यधर्माः कथञ्चित्तादात्म्य: लक्षणसन्निकर्षवन्त एव तथापि यस्य धर्मस्य यदेष्टसाधनतावच्छेदकतया प्रतिसन्धानं तदा तस्य बुद्धिस्थत्वात् सन्निकृष्टत्वम्, यस्य च धर्मस्य सतोऽप्यभिमतकार्य नोपयोगस्तदा तस्य बुद्धिस्थत्वा
न्धानेन
क